________________
५३
१ सर्वत्र प्रसिद्धोपदेशाधिकरणम् । [ अ. १ पा. २ सू. १ संदेहा निर्वायन्ते । इदमाम्नायते - सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुषो भवति ततः प्रेत्य भवति स ऋतुं कुर्वीत (छां. ३ | १४ । १) मनोमयः प्राणशरीरः । छ. ( ३।१४ २ ) इत्यादि । तत्र वाक्योपक्रमे सर्वं खल्विदं ब्रह्म इति ५ सर्वस्य ब्रह्मत्वं प्रतिज्ञाय तज्जलान् इति सर्वविशेषणं हतुत्वेनोक्त्वा तत्त्वेनोपासनमुक्तम् । न चायं शमविधिः । वाक्यार्थे लक्षणाप्रसंगात् । कारणत्वेन सामान्यत एव सिद्धत्वाच्च । अतः सर्वजगतो ब्रह्मत्वेनोपासनमुक्तम् । इदमेव पुराणादिषु विराटत्वेनोपासनम् । अतः परमग्रिमवाक्यार्थे संदेहः । ऋतुं कुर्वीतति । क्रतुर्धर्मो यज्ञ इति यावत् । तस्य १० स्वरूपं मनोमयः प्राणशरीरः इति । उपासनाप्रकरणादुपासनैवैषा । तत्र मनोमय इति प्रमाणभूतो वेद उक्तः । प्राणशरीर इति कार्यकरणयोरभेदोपचारः । अग्रे सत्यसंकल्पादिधर्मवचनात् । किमयं विज्ञानमयो जीवो ब्रह्मत्वेनोपास्यः । उत ब्रह्मैवान्तर्यामी यः पुराणेषु सूक्ष्म उक्तः । तत्र पूर्ववाक्ये जडस्य जगतो ब्रह्मत्वेनोपासनस्योक्तत्वाज्जीवस्यापि ब्रह्मत्वेनो१५ पासनमेव युक्तं न त्वात्यैव ब्रह्मवाक्यं भवितुमर्हति । विज्ञानं ब्रह्म चेद्वेद | ( तै. २/५ ) इति शाखान्तरे स्पष्टत्वाच । तस्मात्कार्यकारणयोरभेदाज्जीव. एव ब्रह्मत्वेनोपास्यः इत्येवं प्राप्त उच्यते ।
1
सर्वत्र प्रसिद्धोपदेशात् । अथ खल्वित्यादि ब्रह्मवाक्यमेव । कुतः । सर्वत्र प्रसिद्धोपदेशात्। कुर्वीतेत्युपदेशो न तूपासना । तत्र परमशान्तस्य १० सर्वस्य जगतो ब्रह्मत्वेनोपासनया शुद्धान्तःकरणस्य सर्ववेदान्तप्रसिद्धब्रह्मोपदेश एव युक्तो मननरूपो न तु क्वचित् सिद्धस्य जीवस्योपासना | शाखान्तरे त्वग्र आनन्दमयस्य वक्तव्यत्वात्तथा युक्तम् । न त्विह तथा । तस्मादानन्दरूपप्राणशरीररूपो वाक्यार्थः ॥ १२१ ॥
6- A reads न घायं for न चायं । 17-8 om. एवं after इति । 21- S read प्रसिद्धस्य for सिद्धस्य ।