________________
अं. १ पा. २ सू. १ ]
अणुभाष्यम् ।
धानि । शब्दतोर्थतश्च । तदर्थं चैतद्विचारितम् | ब्रह्मणि व्यवहारोस्ति कश्चिन्न वेति । तत्र प्रथमसूत्र एव व्यवहारः स्थापितः - यतो वाचो निवर्तन्ते ( तै. २1४ ) इत्यादीनां विशेषेणेदमित्थंतया निरूपणनिषेधनपर - त्वम् । एवंमेव कार्यसिद्धेः । अधीतानां ब्रह्मवाक्यानां चतुर्लक्षण्या ब्रह्म५ परत्वे सिद्धे श्रवणं सिध्यति । श्रुतस्य कालान्तरप्यसंभावनाविपरीतभावनानिवृत्त्यर्थं पूर्वस्थितानामङ्गानामनपेक्षितानामुद्वापेनान्येषामपेक्षितानामावापेन तस्यैवार्थस्य निर्धारणे मननं भवति । ततोप्येवंध्यानादिसमाध्यन्तरूपनिदिध्यासनरूपमनसि सर्वतो निवृत्तव्यापारे स्वयमुपलब्धनिजसुखानुभवरूपं ब्रह्म । इदमेव ब्रह्मज्ञानमिति । अतस्तादृशस्यानुभवैक१० वेद्यत्वाद्युक्तमुक्तविषयत्वं पाकभोजनतृप्तिवत् । अतः श्रवणाङ्गमीमांसायां माहात्म्यज्ञानफलायां भगवद्वाक्यानामन्यपरत्वेन्यवाक्यानां च भगवत्परत्वे दिव्यधर्मादिव्यधर्मव्यत्यासेन वैपरीत्यं फलमापद्येत । तदर्थं दिव्यधर्मनिर्धारो द्वितीयाधिकरणे विचारितः । वेदा एव वाचका अलौकिकमेव कर्मेति ततः पूर्णालौकिकत्वाय विधिनिषेधमुखेनाधिकरणद्वयं सम१५ न्वयेक्षतिरूपम् । तदनु प्रथमे पादे शाब्दसंदेहो निवारितो निश्चितार्थे । तत्रापि प्रथमं प्रत्ययसंदेहो निवारितो द्वयेन । प्रकृतिसंबन्धोप्याधिकरणत्रयेण । पुनरन्तिममधिकरणं संश्लेषनिराकरणाय । एवं प्रथमे पादे शब्दसंदेहों निवारितः ।
ये पुनः क्वचित्सगुणनिर्गुणभेदं प्रतिपादयन्ति ते स्वयमेव स्वस्य २० ब्रह्मजिज्ञासानधिकारं बोधयन्ति । ब्रह्मवादे सांख्यानामिव गुणानामनङ्गीकारात् । भौतिकगुणानामसंबन्धार्थमेव ह्यध्यायारम्भः । अन्यथा सर्वस्यापि तत्कारणत्वेन तत्संबन्धस्य विद्यमानत्वात् । अन्यनिराकरणेन तत्प्रतिपादकत्वनिर्धारकाधिकरणानां वैयर्थ्यमेव ।
अर्थसंदेहनिराकरणार्थं द्वितीयाद्यारम्भः । तत्रार्थी द्विविधो जीव२५ जडात्मकः प्रत्येकसमुदायाभ्यां त्रिविधः । तत्र प्रथमं जीवपुरःसरेण
17 वि reads संदेह for संश्लेष | 47-8 reads धारणाथ for निराकरण