________________
५१ १ सर्वत्रप्रसिद्धोपदेशाधिकरणम् । [ अ.. पा. २ सू. १ ( को. बा. ३।२) इति । अत्र क्रियाज्ञानशक्तिमान्निर्दिष्टः । तदन्वेकैकस्य धर्मप्रशंसा । यो वै प्राणः सा प्रज्ञा या प्रज्ञा स प्राणः ( कौ.बा.३।४ ) इत्युपसंहारान्तम् । पुनस्तयोरेवोत्क्रमणप्रवेशाभ्यां-सह ह्येवास्मिन् शरीरे वसतः सहोत्क्रामतः ( को. ब्रा. १४) इत्युपक्रम्य सुषुप्रिमूर्छामर५ णेषु प्राणाधीनत्वं सर्वेषामिन्द्रियाणामुक्त्वासन्यव्यावृत्त्यर्थं प्रज्ञयैक्यं प्रतिपाद्योपसंहरति । पुनर्ज्ञानशक्तरुत्कर्षं वक्तुम्-अथ खलु यथा प्रज्ञायाम् ( को. बां. १३) इत्यारभ्य न हि प्रज्ञापेतार्थः कश्चन सिंध्येत् ( कौ. बां. १३) इत्यन्तेन ज्ञानशक्त्युत्कर्ष प्रतिपाद्य धर्ममात्रत्वनिरा
करणाय ज्ञानशक्तिमन्तं भगवन्तं निर्दिशति- न हि प्रज्ञातव्यमित्यारभ्य १० मन्तारं विद्यादित्यन्तेन । तदनु ज्ञानक्रियाशक्त्योर्विषयभूतभूतमात्रारूप
जगतो भगवदभेदं प्रतिपादयन्- स एष प्रज्ञात्मानन्दोजरोमृत इत्युपसंहरति ब्रह्मधर्मैः । अतः क्रियाज्ञानविषयरूपा भगवानेवेति प्रतिपाद्य न तावन्मानं ततोप्यधिक इत्येकोपासनैव विहिता । तस्माज्जडजीवरूपत्वा न्सर्वात्मकं ब्रह्मैवेति महावाक्यार्थः सिद्धः ॥ १।१।३०॥१०॥ १५ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणभाष्ये
प्रथमाध्यायस्य प्रथमः पादः ॥ १।१ ॥
प्रथमाध्याये द्वितीयः पादः। १ सर्वत्र प्रसिद्धोपदेशाधिकरणम् ।
सर्वत्र प्रसिद्धोपदेशात् ॥ १।२।१ ॥ समन्वये प्रथमेध्याये सर्वेषां वेदान्तानां ब्रह्मणि समन्वयो वक्तव्यः । तत्रोद्गीथाद्युपासनावाक्यानां मुख्यवाक्येषु फलोपकार्यङ्गत्वम् । ब्रह्मवाक्यानां पुनर्निःसंदिग्धानां समन्वयः स्वतःसिद्धः । संदिग्धानि द्विवि
१ अत्रोभयत्रापि स्थलयोः पाठभेदेनेदानीतनेषु सर्वपुस्तके पु दर्शनम् । तच्च मयायथम श्रीपरुषोत्तमः प्रकाशे ।