________________
अ. १ पा. १ सू. ३०]
अणुभाष्यम् ।
प्रज्ञात्मदं शरीरं परिगृह्य ( कौ. ब्रा. १३) इति शरीरधारणं मुख्यप्राणधर्मः । मा मोहमापद्यथा अहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामि ( प्र. २३ ) इति श्रवणात् । यो वै प्राणः सा प्रज्ञा या
प्रज्ञा स प्राणः ( को. बा. ३।३) इति जीवमुख्यप्राणवाच्यत्वे प्रज्ञा५ प्राणयोः सहवृत्तित्वादुपचारो युज्यते । उत्क्रान्तिश्च । न तु सर्वथा विल
क्षणस्य ब्रह्मणः । तम्माज्जीवमुख्यप्राणलिङ्योर्विद्यमानत्वान्न ब्रह्मप्रकरणमिति चेत् । न । उपासात्रैविध्यात् । अयमर्थः । किमत्र चाद्यते । जीवमुख्यप्राणलिङ्गाद्ब्रह्मधर्माणां जीवपरत्वम् १ । त्रयाणामपि स्वतन्त्रत्वं वा
२ । लिङ्गद्वयस्यापि ब्रह्मधर्मत्वमुच्यतामिति वा ३ । आद्यः पूर्वमेव परि१० हृतः । न हि ब्रह्मधर्मा अन्यपरत्वेन परिणेतुं शक्या इति ॥ द्वितीय
दूषणमाह । उपासात्रैविध्यात् । तथा सत्युपासनं त्रिविधं स्यात् । तद्वाक्यभेदप्रसंगान्न युक्तम् ॥ तृतीये तूपपत्तिरुच्यते । जीवधर्मा ब्रह्मणि न विरुध्यन्ते । आश्रितत्वात् । जीवस्यापि ब्रह्माधारत्वात्तद्धर्मा अपि भगवदा
श्रिता एव । इहेत्युभयत्र संबन्धो ब्रह्मवादे । मुख्यप्राणे तु तद्योगात । १५ तेन योगस्तद्योगस्तस्मात् । प्राणधर्मा भगवति न विरुध्यन्ते । प्राणस्य भगवत्संबन्धात्तद्धर्माणामपि भगवत्संबन्धात् ।
अथवा वकृत्वादयो न जीवधर्माः किन्तु ब्रह्मधर्मा एव । जीव आश्रितत्वाद भासन्ते । परात्तु तच्छतेः ( ब्र. सू. २।३।४१ ) इति न्यायात् । प्राणेपि तथा । स्वाप्ययसंपत्त्योर्जीवस्य ब्रह्माश्रितत्वम् । २० आध्यात्मिकाधिदैविकरूपत्वान्न संयोगः । प्राणस्य तु संयोग एव । तस्मा
त्सर्वे धर्मा ब्रह्मणि युज्यन्ते । सहोत्क्रमस्तु क्रियाज्ञानशक्त्योर्भगवदीययोदेहे सहैव म्थानं सहोत्क्रमणमिति भगवदधीनत्वं सर्वम्यापि बोध्यते।
ननु प्राणम्तथानुगभात ( ब. स. १।१।२७ ) इति प्राणशब्दन ब्रह्मव प्रतिपादितम् । तत्कथं धर्मयारुत्क्रमणमिति चेत् । अत्र धर्मध.. मिणोरकत्वपृथक्त्वनिर्देशयोर्विद्यमानत्वात् । पाणा वा अहमस्मिन्प्रज्ञात्मा
()--( and
read