________________
४९
१० अनुगमाधिकरणम् । [अ. १ पा. १ सू. ३० नन्त्यप्रसंगात्सर्वमेकमेवेति वक्तव्यम् । ततः कारणलय एव सर्वभाव इतिमनुरभवं सूर्यश्च इत्यवंयुत्यानुवादोनुपपन्नः । तत्र यथा ज्ञानावेशात्सर्वधर्मस्फूर्तिः एवमत्रापि ब्रह्मावेशादुपदेश इति त्वाष्ट्रवधादयो ब्रह्मधर्मा एव तदावेशेन क्रियमाणत्वात् । नन्वेष वज्रस्तव शक तेजसा हरेर्दधी५ चेस्तपसा च तेजितः । तेनैव शत्रु जहि विष्णुयन्त्रितः (भा. ६।११।२०) इति वृत्रवचनं भागवते । तस्माद्युक्तं ब्रह्मधर्मवचनम् । ननु-स्वाप्ययसंपत्योरन्यतरापेक्षमाविष्कृतं हि ( ब्र. सू. ४-४-१६) इति सूत्रे सुषुप्तौ ब्रह्मसंपत्तौ च ब्रह्मधर्माविर्भावो न त्वन्यदेति कथमेवमिति चेत् ।
मैवम् । उपदेशभावनादिष्वपि कदाचिदुत्तमाधिकारिविषये ब्रह्मप्राकट्य१० मित्यङ्गीकर्तव्यम् । भय्यव सकलं जातम्-- इत्यादिवाक्यानुरोधात । इहैव समवनीयन्ते प्राणाः । ब्रह्मैव सन् ब्रह्माप्येति (बृ. ॥४॥६) इत्यप्याविर्भावापेक्षं तस्य च प्राप्तत्वान्न सूत्रे फलत्वमाह । जीवन्मुक्तानामपि परममुक्तेर्वक्तव्यत्वाच्च । असंप्रज्ञातसमाधाविवाविर्भावदशायामेव शरीरवियोगे वियोजकाभावाद वागादिमानं लीयते । तस्य च प्राप्तत्वादेव नार्चि१५ रादिगतिः । तथापि प्रायिकत्वादेव न सूत्रगीतादिषु तद्वचनम् । सगुणनिर्गुणभेदेन नियमवचनं त्वप्रामाणिकमेव । ब्रह्मवादे गुणानङ्गीकाराच्च । तस्माद्युक्तमुक्तं शास्त्रदृष्ट्या तूपदेश इति ॥ १।१।२९ ॥ जीवमुख्यप्राणलिङान्नेति चेन्नोपासात्रैविध्यादाश्रि
तत्वादिह तद्योगात् ॥ १।१।३० ॥ अन्यद्वाधकद्वयमाशङ्कते । ननु यद्यपि ब्रह्मधर्मा भूयांसः प्रकरणे श्रूयन्ते । तद्वनीवधर्मा मुख्यप्राणधर्माश्च बाधकाः सन्ति । न वाचं विजिज्ञासीत । वक्तारं विद्याद् ( को. बा. ३८) इत्यादि । अत्र हि बागादिकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते । अथ ग्खल प्राण एव
२०
S-C and S read ब्रह्माविर्भावो for ब्रह्मधर्माविर्भायो । 12-B om. च after तस्य and S rends and explains ( अनुग्रहमात्रा
- धीनत्वेन तादृशमद्योमुक्तेः साधनासाध्यत्वेनानियतकालत्वात् ) .. प्रदीपः-प्रायिकत्वात tor प्राप्तत्वात ।
७ [ अणुभाष्य]