________________
अ. १ पा. १ स. २८]
अणुभाष्यम् ।
न । अध्यात्मसंबन्धभूमा ह्यस्मिन् । अस्मिन्प्रकरणेध्यात्मसंबन्धः । आत्मानमधिकृत्य यः संबन्धः । आत्मशब्दो ब्रह्मवाची वस्तुतो जीवस्य ब्रह्मत्वाय तथा वचः । तस्य संबन्धस्तद्धर्मास्तेषां बाहुल्यं प्रतीयत एष लोकपाल इत्यादि । यावद्यथाकथंचिदपि ब्रह्मप्रकरणत्वं सिध्यति तावद५ न्यप्रकरणत्वमयुक्तमिति हि शब्दार्थ: । प्राणस्य प्रज्ञात्मत्वं स्वातन्त्र्येणायुर्दातृत्वम् । न वाचं विजिज्ञासीत, वक्तारं विद्यात् (को. बा. ३८) इति चोपक्रम्य-तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भतमात्रा: प्रज्ञामात्रास्वर्पिता: प्रज्ञामात्राः प्राणेर्पिताः । स एष प्रज्ञात्मानन्दोजरोमृतो न साधना कर्मणा (को. बा. ३१९ ) इत्यादिविषयेन्द्रिय१० व्यवहाररनाभिभूतं प्रत्यगात्मानमवोपसंहरति । स म आत्मेति विद्यात्
( को. बा. १९ ) इति चोपसंहारः । तस्मादध्यात्मसंबन्धबाहुल्यात् ब्रह्मोपदेश एवायम् ॥ १।१।२८ ॥
तर्हि बाधकस्य का गतिरित्यत्राह । शास्त्रदृष्टया तूपदेशो वामदेववत् ॥ ११॥२९॥
पूर्वसूत्रेणापरिहृतमत्र परिहरति तुशब्दः । अयं दोषो व्यवहारदृष्टयोपदेशे । अहं ब्रह्मेत्यारेण दर्शनेन तूपदेशः । ननु तत्त्वमसि (छां. ६।९।४) अयमात्मा ब्रह्म ( बृ० २।५।१९) इति वाक्येषु जीवस्य ब्रह्मत्वं बोध्यते । तत्र प्रत्यधिकारं शास्त्रप्रवृत्तिरिति न्यायेन स्वात्मन एव ब्रह्मत्वावगतिर्मुख्या न प्रतर्दनस्येन्द्रजीवब्रह्मत्वावगतिरुपासनं वा पुरुषा२. र्थाय । अतः शास्त्रदृष्टिरपि नैवंविधा। केवलस्य चैतन्यमात्रस्य तादृशे ब्रह्मण्यैक्यावगतिविरोधात् तत्त्वमस्यादिवाक्यार्थोध्यवसीयते । नतु ब्रह्मधर्मा जीवे वक्तुं शक्यन्त इत्याशङ्कय परिहरति । वामदेववत् । त?तत्पश्यनृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च (बृ. १।४।१० ) इति । य एव प्रत्यबुध्यत स सर्वं भवति । तत्र सर्वेषां सर्वभावे सर्वा
2- om. आम्मानमधिकृत्य before यः । 5-A and Cread प्रज्ञानात्मत्वं for प्रज्ञाम्मत्वम् । 1-S and B read अवगतिविरोधात for अवगतिर्विरोधात् ।