________________
१० अनुगमाधिकरणम् । [ अ. १ पा. १ सू. २८
मृतत्वमनोति ( कौ. बा. ३२ ) इत्यमृतत्वं योगेन प्रतिपादयति । तत्र संदेह: । प्राणः किमासन्यो ब्रह्म वेति ।
१०
अत एव प्राण इत्यत्र प्राणशब्दमात्रे संदेह: । अत्रापि संदेहः । बाधकं च वर्तत इति पृथगधिकरणारम्भः । तत्र साधकासाधारणधर्मस्या५ भावाद् बाधकानां विद्यमानत्वान्न ब्रह्मत्वमिति पूर्वपक्ष: । सिद्धान्तस्तु चतुर्भिः सूत्रः प्रतिपाद्यंत । तत्र प्रथमं साधकधर्ममाह एकेन । त्रिभिर्वा - धकनिराकरणम् । प्राणः परमात्मा भवितुमर्हति । कुतः । तथानुगमात् । तथाहि । पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदार्थानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते । उपक्रमे तावद्वरं वृणीष्वेतीन्द्रः प्रतर्दनोक्तः परमपुरुषार्थं वरमुपचिक्षेप । त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे ( कौ. बा. ३।१ ) इति । तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात् । न हि परमात्मनोन्यद्धिततमस्ति । परमानन्दस्वरूपत्वात् । पापाभावश्च ब्रह्मविज्ञान एव । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ( मुं. २२८ ) इति श्रुतेः । प्रज्ञात्मत्वं च तस्यैव १५ संभवति । उपसंहारेप्यानन्दोजरोमृतः ( कौ. बा. ३1९ ) इति । एष लोकाधिपतिः ( कौ. बा. २ ( ९ ) इत्यादि च । तस्मात्सर्वत्रानुगमात्प्राणो
ब्रह्म || १।१।२७ ॥
૪૭
नवक्रात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ १।१।२८ ॥
बाधकमाह । यदुच्यते प्राणो ब्रह्मेति तन्न । कुत: । वक्तुरात्मोपदेशात् । वक्ता हीन्द्र आत्मानमुपदिशति । मामेव विजानीहीत्युपक्रम्यप्राणो वा अहमस्मि प्रज्ञात्मानं मामायुरमतमित्युपास्व ( कौ. बा. ३(२) इति । स एष प्राणो वक्रात्मत्वेनोपदिश्यमानः कथं ब्रह्म स्यात् । तथा च वाचो धेनुत्वोपासनवत् देवतायाः प्राणत्वेनोपासना बोध्यते । अन्ये २५ च ब्रह्मधर्माः प्राणस्तावका इति । कथमस्य ब्रह्मोपाख्यानत्वमिति चेत् ।
२०
24-Co M and S read प्राणन्वोपासना for प्राणत्वेनोपासना ।