________________
अ. ५ पा. १ सू. २६ ] अणुभाग्यम् ।
पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः ।
अमृतं क्षेममभयं त्रिमूर्नोधायि मूर्धसु ॥ १५ ।। इत्यपरः । पुरुषसूक्तानुरोधे द्वितीय एवार्थः । प्रथमे तावत्-ननु दिवीति मन्त्रे सप्तम्या आधारत्वं प्रतिपाद्यते । अतः परमित्यत्र पञ्चम्या ५ अनाधारत्वमत उपदेशभेदात् पूर्वोक्तपरामर्शाभावान्न ज्योतिषो ब्रह्मत्वमिति चेत् । नैष दोषः। उभयस्मिन्नप्याविरोधात् । मन्त्रे दिव्येवोक्तमस्मिन् वाक्ये सर्वत्रोच्यते । सर्वत्र विद्यमानस्य दिवि विद्यमानत्वं न विरुध्यते । अतः शब्देन न तत्राविद्यमानत्वम् । किन्तु ततोप्यन्यत्र सत्त्वं बोध्यते तस्मात् सप्तमीपञ्चमीनिर्देशो न विरुद्धः। द्वितीये तु-ननु मन्त्रेमृतपदमत्र १० ज्योतिःपदमत उपदेशभेदाच्चतुर्थश्च पादो हृदयम् । अतः शब्दाच सर्वस्मा
द्वेदः प्रतिपाद्यते । अत उपदेशभेदान्नेकवाक्यता । अस्मिंश्च वाक्ये चरणाभावात्स्वरूपासिद्धो हेतुरिति चेत् । नैष दोषः । उभयस्मिञ् ज्योतिःपदेमृतपदे च प्रयुज्यमान एकार्थत्वान्न विरोधः । पादत्रयमुपरितनलोकेषु
चतुर्थं सर्वत्रेति । अन्यथा वैजात्यं पादानामापद्येत । परिच्छेदश्च विरो१५ धश्च । अतोमृतज्योतिःशब्दयोरेकार्थत्वेन विरोधाभावात् एकवाक्यत्वम् ।
अतोत्र चरणसद्भावात्तस्य च ब्रह्मधर्मत्वाज्ज्योतिर्ब्रह्मैव ॥ १।१।२६॥९॥
१० अनुगमाधिकरणम् । प्राणस्तथानुगमात् ॥ ११॥२७॥
अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनसंवादः । प्रतर्दनो ह वै २°दैवोदासिः ( कौ. बा. ३।१ ) इत्यादिना । एष लोकपाल एष लोका
धिपतिरेष लोकेशः स म आत्मेति विद्यात् स म आत्मेति विद्यात् ( को. बा. ३८) इत्येतदन्तम् । तत्र वरदाने मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्य इत्युपक्रम्य त्वाष्ट्रवधादिनात्मानं प्रशस्य स्वोपासनायाः पापाभावं फलत्वेन प्रतिपाद्य कस्त्वमिति विवक्षायां-प्राणो वा अहमस्मि प्रज्ञात्मानं मामायुरमृतमित्युपास्व ( कौ. ब्रा. ३२) इत्युक्त्वा : प्राणत्वमुपपाद्यामृतत्वं च प्राणस्योपपाय प्राणेन ह्येवामुभिल्लोके