________________
९ ज्योतिश्चरणाधिकरणम् । [अ. १ पा. १ . २६ ( छां. ३।१२।५ ) तावानस्य महिमा ( छां. ३।१२।६ ) इति। तस्यामेव व्याख्यानरूपायां गायत्र्यामुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिदध्यात् । यद्वैतद्ब्रह्मेति ब्रह्मपदमपि छन्दसः प्रकृतत्वात्तत्परमेवावगन्तव्यम् । शब्दस्यापि ब्रह्मवाचकत्वसिद्धः । ब्रह्मोपनिषदितिवच्छब्दब्रह्मेति ५ च । तस्माच्छन्दस एव पादाभिधानान्न ब्रह्मधर्माः पादा इति चेत । नेष दोषः । तथा चेतोर्पणनिगदात । तथा तेन द्वारण चेतसोर्पणं निगद्यत । गायत्री वा इदं सर्वं यदिदं किंच ( छां. ३।१२।१ ) इति । नहि वर्णसमाम्नायस्य सर्वत्वमनुपचारेण संभवति । यथा सूनीद्वारा सूत्रप्रवेशस्तथा
गायत्रीद्वारा बुद्धिस्तत्प्रतिपाद्य ब्रह्मणि प्रविशेदिति । कुत एतदेवं प्रति१० पाद्यत इति तत्राह । तथा हि दर्शनं तथा नेनैव प्रकारेण दर्शनं ज्ञानं
भवति स्थूला बुद्धि हत्यैव ब्रह्मणि प्रविशेदिति । एतेन सर्वा मन्त्रोपासना व्याख्याताः । हि युक्तश्चायमों लोके स्वतो यन्न प्रविशति तदुपायेन प्रविशतीति । न त्वदृष्टद्वारा। दृष्टे संभवत्यदृष्टकल्पनाया अन्या
य्यत्वात् । तस्मात्पादा ब्रह्मधर्माः ॥ १।१।२४ ॥ १५ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ ११॥२५॥
किंच । भूतादयोत्र पादा व्यपदिश्यन्ते । भूतपृथिवीशरीरहृदयानि चत्वारि । न ह्येतानि गायत्र्याः पादा भवितुमर्हन्ति । ब्रह्मपरिग्रहे तुप- पद्यन्ते । यावन्मुख्यमुपपद्यते तावन्न गौणं कल्पनीयम् । अयमर्थः ।
पूर्वहेतौ छन्दसोपि पादा व्यपदेशाद्भवन्ति तथापि ब्रह्मण एव युक्ता २० इति । पुरुषसूक्ते-एतावानस्य (ऋ. सं. १०।९।३) इत्यस्य ब्रह्मपरत्वात् ।
अस्मिन्वाक्ये तु गायत्र्या: पादा एव नोपदिष्टाः किन्त तं ब्रह्मण एव पादा इति । तद्वाचकत्वेन गायत्र्यामुपचारेणोपसंहारः । चकारादर्था न शब्दस्य पादा भवन्ति किन्त्वर्थस्यैवेति । तस्माद्ब्रह्मवाक्यत्वे भूतादीनां पादत्वमुपपद्यते नान्यथेति । तस्मात्पादानां ब्रह्मधर्मत्वम् ॥ १।१।२५ ॥ २५ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ १।२६॥
. पादोस्थ विश्वा भतानि ( छां. ३।१२।६ ) सर्वाणि भतायेकः पादः । पादत्रयममृतं दिवीत्यकोर्थः ॥