________________
अ. १ पा. १ सु. २३ ]
चतुष्टयं प्रतिपाद्य ब्रह्मणश्र्चतुष्पात्त्वमुक्तम् । पुरुषसूक्तंप्याश्रमचतुष्टयस्था जीवा: पादत्वेनोक्ताः । तथा प्रणवब्रह्मविद्यायामप्यकारोकारमकारनादवाच्याश्चत्वारः पादा विश्वतैजसप्राज्ञतुरीया उक्ता: । तद्विष्णोः परमं पदमिति च । ब्रह्म पुच्छमिति च । सत्यकामब्राह्मणे तु स्पष्टा एव ब्रह्मण५ श्वत्वारः पादा निरूपिताः । अतः सच्चिदानन्दरूपस्य प्रत्येकसमुदायाभ्यां चतूरूपत्वम् । तत्र केवलानां कार्यत्वमेव । चतुर्थपादस्य तु ब्रह्मत्वम् । तत्रापि षडूविधत्वप्रतिज्ञानाद भूतपृथिवीशरीराणां परिचायकत्वेन पड़विधत्वमनिरूप्य हृदयस्य षड्विधत्वं निरूपयन् तस्य ह वा एतस्य ( छां. ३ | १३ | १ ) इत्यादिना पञ्चदेवपुरुषान्निरूप्य तेषां द्वारपाल१० त्वज्ञानानन्तरं - अथ यदतः परो दिवो ज्योतिर्दीप्यते ( छां. ३ १३७ ) इति चतुर्थपादस्य षष्ठविधत्वप्रतिपादनादतश्चतुर्थपादे पञ्च पुरुषास्तत: परो दिवो ज्योतिः षष्ठस्तस्यैव सर्वत्र दीप्यमानत्वं निरूप्य तदेवान्तः पुरुष उपसंहरति । तस्मात्पूर्वं त्रिपादस्यामृतं दिवि ( छां. ३|१२|६ ) इत्युक्तत्वादस्य त्रिपात्संबन्ध्यमृतमुपरितनलोकेष्विति । अतोत्र चतुर्थः १५ पादो निरूप्यत इति सिद्धम् । अतः पादानां ब्रह्मधर्मत्वात् ज्योतिषो ब्रह्मत्वमिति । ब्रह्मधर्मनिर्णयार्थमिदमधिकरणं चरणानामौपचारिकत्वव्यावृत्त्यर्थम् । एतन्निर्णयेन प्रणवादिविद्या निर्णीता वेदितव्याः | १|१|२३||
अणुभाष्यम्
छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनम् ॥ १।१।२४ ॥
૪
२०
ननु नात्र ब्रह्म चतुष्पान्निरूपितं किंतु गायत्री छन्दः । गायत्री वा इदं सर्वं यदिदं किंच ( छां. ३।१२।१ ) इत्युपक्रम्य तामेव भूतपृथिवी - शरीरहृदयभेदैर्व्याख्याय सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्युक्तम्
4- M reads ब्राह्मणेन for ब्राह्मणे ।
8-( reads षड़विधत्वमपि निरूप्य for षड्विधत्वमनिरूप्य ।
11- ( om. अतः before चतुर्थपादे |
11- S reads ततः for अतः ।
1ū-A and $ read धर्मपरत्वात for धर्मत्वात् ।