________________
४३
९ ज्योतिश्चरणाधिकरणम् ।
[ अ. १ पा. १ सू. २६
८ अतिदेशाधिकरणम् ।
|
अत एव प्राणः ॥ १।१।२२ ॥ प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता ( छां. १।११।४ ) इत्युपकम्य श्रूयते - कतमा सा देवतेति प्राण इति होवाच । सर्वाणि ह वा ५ इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता ( छां. १।११।५ ) इति । तत्र संशयः । आसन्यः प्राणो ब्रह्म वेति । पूर्वपक्षसिद्धान्तौ पूर्ववदेवेत्यतिदिशति । नन्वधिकरणानां न्यायरूपत्वात्सर्वत्र गमिष्यति किमित्यतिदिश्यत इति । उच्यते । प्राणस्य मुख्यस्यापि सर्वभूतसंवेशनं स्वापादौ श्रुतांवनोपपाद्यते । यदा वै पुरुषः १० स्वपिति प्राणं तर्हि वागप्येति ( श. बा. १०/३श३६ ) इत्यादिना । तत्र यथा प्राणविद्याया न ब्रह्मपरत्वमेवमेवास्यापि न ब्रह्मपरत्वमिति न न्यायेन प्राप्नोति । अतोतिदिशति । अनेन चायमतिरिक्तो न्याय आपादितः । यत्रैव प्रकरणे ब्रह्मपरत्वे कल्प्यमाने न किंचिद्बाधकं तत्रैव ब्रह्मपरत्वं कल्पनीयमिति । न त्वन्यस्मिन्संभवे तत्परत्वमिति । अत एव १५ तल्लिङ्गात्प्राणशब्दवाच्यं ब्रह्मेति ॥ १।१।२२ ॥ ८ ॥
९ ज्योतिश्चरणाधिकरणम् । ज्योतिश्वरणाभिधानात् ॥ १|१|२३||
२०
इदमामनन्ति । अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वत पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु । इदं तावद्यदिदमस्मिन्नन्तः पुरुषे ज्योति: ( छां ३|१३|७ ) इति । तत्र ज्योतिः शब्देन प्राकृतं ज्योतिराहोस्विद् ब्रह्मैवेति संशयः । अत्रासाधारणब्रह्मधर्माभावात् पूर्वपक्षः । सिद्धान्ते तु चरणस्य ब्रह्मधर्मत्वमिति । तावानस्य महि मातो ज्यायांश्च पूरुषः । पादोस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि । ( छां. ३११२२६ ) इति पूर्ववाक्यम् । गायत्री वा इदं सर्वं भूतं यदिदं किंच ( छां. ३ १२ १ ) इति गायत्र्याख्यब्रह्मविद्यां वक्तुं तस्याः पाद
२५
14-4 om. अत एव तल्लिङ्गात्प्राणशब्दवाच्यं ब्रह्मेति ।