________________
अ, १.पा. १ सू. २१]
अणुभाग्यम् ।
७ तल्लिङ्गाधिकरणम् ।
आकाशस्तल्लिङ्गात् ॥ ११॥२१ ॥ अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्ति । आकाशो ५ ह्येवेभ्यो ज्यायानाकाशः परायणम् । (छां. १।९।१ ) इति । तत्र संशयः । भूताकाशो ब्रह्म देति । ननु कथमत्र संदेहः । आकाशव्यामशब्दा ब्रह्मण्येव प्रयुज्यन्ते ब्रह्मप्रकरणे । कार्यनिरूपणे तु महाभूतवचनः । यथाआकाश आनन्दो न स्यात् परमे व्योमन् प्रतिष्ठिता-इत्यादि । आत्मन
आकाशः संभूतः ( ते. २।१ ) इति कार्यनिरूपणम् । अतः प्रकरणादेव १० संदिग्धनिर्णये किमिति सूत्रारम्भः जन्मादिलक्षणसूत्रेण चायमर्थो निर्णीतः ।
अन्यथा ब्रह्मशब्देपि संदेहः स्यात् महाभूतवेदादिवाचकत्वात् । तस्मात्प्रकरणादेव परिज्ञानं भविष्यतीति चेत् । उच्यते । असंदिग्धे प्रकरणे तथैव निर्णयः । इह पुनः प्रकरणमपि संदिग्धमतो विचारः ।
____ अवान्तरविद्यायां पर्यवसितप्रकरणवदस्यापि प्रकरणस्य भताकाश १५ एव पर्यवसानमिति लोकभाष्यन्यायेनाकाशो भौतिक एवति पूर्वपक्षस्तत्राह । आकाशस्तल्लिङ्गात् । आकाशः परमात्मैव । कुतः । तल्लिङ्गात् । श्रुतिलिङ्गादयो नियामकत्वेन पूर्वतन्त्रवदिहापि गृह्यन्ते । लिङ्गं श्रुतिसामर्थ्यमेकवाक्यता च सर्वासां ब्रह्मश्रुतीनां तत्र ब्रह्मैव जगत्कारणमिति निःसंदिग्धेषु सिद्धम् । सर्वशब्दवाच्यत्वं ब्रह्मण्येव । तत्र वाक्यार्थापक्षया पदार्थस्य २.० दुर्बलत्वाद्वाक्यार्थः सर्वगतित्वादिः । तद्वाक्यार्थान्यथानुपपत्त्याकाश
पदार्थो ब्रह्मेति । सर्वशब्दवाच्यत्वाञ्च न लक्षणा मुख्यत्वाच्च । यावन्मुख्यपरत्वं संभवति तावन्न कस्यापि वेदान्तस्यापरब्रह्मपरत्वमिति मर्यादा । तस्माद्-यदेष आकाश आनन्दो न स्यात् (ते. २१७ ) इतिवदत्राप्याकाशो ब्रह्मैवेति सिद्धम् ॥ १।१।२१ ॥ ७ ॥
21-S reads अस्य ब्रह्म for जनाए ।