________________
६ अन्तस्तद्धर्माधिकरणम् । [अ. १ पा.१ सू. २० स्तद्ब्रह्मेति मन्तव्यम् । ब्रह्म तु वैदैककसमधिगम्यं यादृशं वेदे प्रतिपाद्यते तादृशमेवेत्यसकृदवीचाम । प्रकृतेपि हिरण्मय इत्यत्र यकारलोपश्छान्दसः । अतो न द्यच् । हिरण्यशब्द आनन्दवाची। लोकेपि तस्यानन्दसाधकत्वात् । अतः केशादयोपि सर्व आनन्दमया एव तादृशमेव ५ ब्रह्मस्वरूपमिति मन्तव्यम् । अत एव । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः। कयूरवान्मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धतशङ्खचक्रः ॥१॥
( आ. हृदय. ५५) इत्यत्रापि वपुःस्वरूपम्। माया ह्येषा मया सृष्टा (म.भा.१२।३३९।४५) इत्यादि भगवद्वाक्यं भगवन्मायया भगवन्तमन्यथा १० पश्यतीत्याह।नतु भगवानेव मायिक इति । शरीरे सति जीवत्वमेवेति निश्चयः। अता ब्रह्मधर्मोपदेशात्सूर्यमण्डलस्थः परमात्मैव ॥१।१।१९॥
भेदव्यपदेशाच्चान्यः ॥ ११॥ २० ॥ इतोपि सूर्यमण्डलस्थः परमात्मा । भेदव्यपदेशात्। य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदि१५ त्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः (बृ. ३१७९) इति श्रुत्य
न्तर आधिदैविकं सूर्यमण्डलाभिमानिभ्यां भेदेन निर्दिष्टम् । यद्यपि तत्राकारो न श्रूयते तथापि हिरण्मयवाक्येनैकवाक्यत्वात् सर्वत्र साकारमेव ब्रह्मति मन्तव्यम् ।
अन्तर्यामिब्राह्मणे चत्वारोा उच्यन्ते । सर्वत्र तिष्ठन् तद्धमैन २० संबध्यते । सर्वमुक्तिपरिहाराय स्वधर्मेस्तन्न बध्यते । स्वलीलासिध्यर्थ तच्छरीरमिति । तस्य नियमनं तदर्थमिति । चकाराद्धर्मा उच्यन्ते । तस्मात्सर्वविलक्षणत्वादन्य एव नाभिमानी। उपचारव्यावृत्त्यर्थमन्यपदेनोपसंहारः । ब्रह्मत्वे सिद्ध ज्ञानं वोपासना वति नास्मत्सिद्धान्ते कश्चन विशेषः । कारणे कार्यधर्मारोपस्त्वयुक्त एव । कार्ये पुनः कारणधर्माधिक२५ रणत्वनोपासना अभेदात् फलायेति सर्वत्र व्यवस्थितिः ॥ १।१। २०॥६॥
9-Sroads भगवान for भगवन् । भगवान नारद इत्यर्थः प्रदीपटीकायाम् ।
६ [ अणुभाष्य ]