________________
५
अ. १ पा. १ सू. १९ ]
अणुभाष्यम् ।
किकत्वाद् ब्रह्मण एव संगच्छते । शरीरवदिन्द्रियस्यापि परिग्रहः । वर्णमात्रपरिग्रहान्नासभ्यता । स्थावरापेक्षया जङ्गमस्योत्कृष्टत्वात्स्थावरावयवोपमानवज्जङ्गमावयवोपमानं स्थावरस्यापीति सर्व ब्रह्मभावाय श्रुत्युक्तत्वाच्च । तस्माद् ब्रह्मण एवेदं शरीरमित्येवं प्राप्त उच्यते ।
अन्तस्तद्धर्मोपदेशात् ॥ १।१।१९ ॥
अन्तर्दृश्यमानः परमात्मैव । कुतः । तद्धर्मोपदेशात् । तस्य ब्रह्मणो धर्मा उदित्यादिधर्मा उपदिश्यन्ते । स एष सर्वेभ्यः पाप्मभ्य उदित: ( छां. १।६।७ ) इति ।
४०
अयमाशयः । ब्रह्म कारणं जगत्कार्यमिति स्थितम् । तत्र कार्य - १० धर्मा यथा कारणे न गच्छन्ति तथा कारणासाधारणधर्मा अपि कार्ये । तत्रापहतपाप्मत्वादयः कारणधर्मास्ते यत्र भवन्ति तद्ब्रह्मेत्येवावगन्तव्यम् । बलिष्ठत्वात्कारणधर्मस्य । नामतुल्यतामात्रमुभयेषामपि धर्माणां ते श्रुत्यैकसमधिगम्याः । ब्रह्माणि लोके प्रमाणान्तरमपि प्रवर्तते । अतः सर्वरसादयो ब्रह्मनिष्ठा एवं धर्माः । स्थूलत्वाद१५ यस्तु ये ब्रह्मणि निषिध्यन्ते स्थूलादिवाक्येषु ते कार्यधर्माः । अणोरणीयानित्यादिषु कारणधर्मा एव । अत एकोप्यसाधारणो धर्मो विद्यमानः शिष्टान् संदिग्धानपि ब्रह्मधर्मानिव गमयति । इममेव श्रुत्यभिप्रायमङ्गीकृत्य सर्वत्र ब्रह्मवाक्यनिर्णयमाह सूत्रकारः । तथा च श्रुतिव्यतिरिक्तस्थले तथैवावगन्तव्यम् | अनन्तमित्यनन्तमूर्तिता च ब्रह्मणः प्रतिज्ञाता । २० अन्यथा गुहायां निहितमिति विरुध्येत । तस्मात्साकारं तादृशमेव ब्रह्म । ब्रह्मणः शरीरमिति तु सर्वथासंभवम् । सर्वकर्तुर्ब्रह्मणः का वानुपपत्तिः स्यात् । येन तस्यापि शरीरं कल्पयेत् । किंतु लीलया व्यामोहनार्थमन्यथा भासयेन्नटवत् । तस्माद्वेदातिरिक्तेप्युपपत्तिपूर्वकं यत्र ब्रह्मधर्म -
18-S reads श्रुत्यतिरिक्त for श्रुतिव्यतिरिक्त ।
21-A, B and M read असंगतम् for असंभवम् ।
21 - A reads सर्वकर्तृ for सर्वकर्तुर्ब्रह्मणः । 22- A and B read स्वस्यापि for तस्यापि ।