________________
६ अन्तस्तद्धर्माधिकरणम् । [ अ. १ पा. १ सू. १९ ६ अन्तस्तद्धर्माधिकरणम् ।
अथ य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हि - रण्यकेश आपणखात्सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तोदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः । उदेति ह ५र्वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ( छां. १।६।७ ) इत्यधिदैवतम् ( छां. १/६/८ ) अध्यात्मम् ( छां. १/७/१ ) अथ य एषोन्तरक्षिणि पुरुषो दृश्यते ( छां. १७१५ ) इत्यादि ।
३९
तत्र संशयः । किमधिष्ठातृदेवताशरीरमाहोस्वित्परब्रह्मेति ब्रह्मणो वा शरीरमिति । तदर्थमिदं विचार्यते । हिरण्मयशब्दः सुवर्णविकारवाची | आहोस्वित् प्रकाशसाम्येनानन्दवाचीति । ब्रह्मविदाप्नोति परम् ( तै. २/१ ) इत्युपक्रम्य आनन्दमयस्य फलत्वमुक्त्वा द्वितीयोपाख्याने स यश्वायं पुरुषे यश्वासावादित्ये स एकः स य एवंविद् ( तै. ३।१० ) इति साधनस्य–आनन्दमयमात्मानमुपसंक्रम्य ( ते. ३|१० ) इति फलं श्रुतम् । तत्र सवितरि विद्यमानस्याब्रह्मत्वं फलं नोपपद्यत इति विचारारम्भः । १५ तत्र हिरण्मयशब्दो विकारवाची केशनखादयश्वोच्यन्ते शरीरधर्माः । मृता वा एषा त्वगमेध्या यत्केशश्मश्रु ( कठ श्रु. ३ ) इति शरीरमन्तरा नोपपद्यते । परिच्छेदश्वाधिदैविकादिवचनं च बाधकम् । अतः सर्वथा तच्छरीरमिति तु मन्तव्यं चाक्षुषत्वाच्च । इन्द्रियवत्वं च श्रूयते । यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्य ( छां १२६/७ ) इति । कपेरास आसनम् । आरक्तं तस्यासनं भवतीति । असभ्यतुल्यता च । अतो देहेन्द्रिययोर्विद्यमानत्वाज्जीवः कश्विदधिकारी सर्यमण्डलस्थ इति गम्यते । फलं तत्सायुज्यद्वारेति । अथोच्येत - एष सर्वेभ्यः पाप्मभ्य उदितः ( छां. १/६/७ ) इत्यपहतपाप्मत्वादिधर्मश्रवणात् पर्वदोषस्यापि विद्यमानत्वाद्ब्रह्मण एव केनचिन्निमित्तेन शरीरपरिग्रह इति । तस्य च शरीर६५ स्य कर्मजन्यत्वाभावादपहतपाप्मत्वादि संगच्छते सुवर्णशरीरत्वमप्यलौ
1
१०
२०
18- A and Bom. तु before मन्तव्यम् । 22-A reads ठ after फलं ।