________________
अ. १ पा. १ सू. १८]
अणुभाष्यम् ।
३८
सन् ब्रह्माप्येति (बृ. ६४।६) इतिवदस्याप्यर्थः । तस्मान्नायं जीवो नापि जडः । पारिशेण्याद्ब्रह्मैवेति सिद्धम् ।
ये पुनरधिकरणभङ्गं कुर्वन्ति तेषामज्ञानमेव । यतस्तैरप्यानन्दमयः कः पदार्थ इति वक्तव्यम् । न तावज्जीवः । तस्य ब्रह्मज्ञानफलत्वेन ५ ब्रह्मणा विपश्चितेत्यानन्दमयस्योक्तत्वात् । अथ जडः स्वर्गवत् । तदा किमाश्रित इति वक्तव्यम् । जडाश्रितत्वे कर्मफलमेव स्यात् । ज्ञानस्याप्यवान्तरफलामिति चेत् । न । तर्हि किमानन्दात्तस्यातिरिक्त फलं भविष्यति । जडचिद्रूपतायाः पूर्वमेव विद्यमानत्वात् । अस्यैवानन्द
स्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ. ४।३।३२ ) इति श्रुतिविरो१ . धश्च पुच्छत्वेन ब्रह्मवचनात्प्रद्वेष इति चेत् । तर्हि स एको ब्रह्मण
आनन्दः (ते. २।८ ) इत्यत्रापि षष्ट्या भेदनिर्देशाद्ब्रह्मणः परमपुरुषार्थत्वं नाङ्गीकुर्यात् । उपक्रमादिसर्वविरोधश्च पूर्वमेव प्रतिपादितः । यदप्यधिकरणमन्यथा रचितं ब्रह्मपुच्छमिति तत्र न पुच्छस्य ब्रह्मत्वं प्रतिपाद्यते । येनान्यथा समाधानं भवेत् । किंतु ब्रह्मणः पुच्छत्वमिति पूर्व१५ न्यायेनेदं पुच्छं प्रतिष्ठेतिवत् । तत्र श्रुतिबाधो ब्रह्मणाप्यशक्यः । मौख्यं
चैतत् । आनन्दमयस्यैव ब्रह्मत्वे न कोपि दोषः स्यात् । आनन्दमयस्याब्रह्मत्वं परिकल्प्य तत्पुच्छत्वेन ब्रह्म वेदबोधितमिति ज्ञात्वा तत्समाधानार्थं यतमानो महामूढ इति विषयफलयोः किं मुख्यमित्यप्यनुसन्धेयम् । पुच्छत्वोक्तिस्तु पूर्वभावित्वाय । अत एव ज्ञानविषयत्वं प्रतिष्ठा च । • आनन्दमयो ब्रह्मण्येव प्रतिष्ठित इति । अत्रावयवावयविभावो* भाक्त इति तु युक्तं प्राणमयादीनामपि तथात्वात् । अन्तस्थितस्य बाह्यानुरोधेन तथात्वमिति सर्वं सुस्थम् ॥ १८ ॥ ५॥
-
-
1-S reads अस्यार्थः for अस्याप्यर्थः। 3-S reads तु after ये। 20-वि reads अवयविभावः for अवयवावयविभावः ।
* अयमपपाठः । इति विवरणे ।