________________
५ आनन्दमयाधिकरणम् | [ अ. १ पा. १४. १८ जीवस्य फलरूपत्वमात्रेणानन्दमयत्वं नोपपद्यते । तथा सति तस्य स्वातव्येण जगत्कर्तृत्वेत्यलौकिकमाहात्म्यवत्त्वेन निरूपणं नोपपद्येत । अतो न जीव आनन्दमयः ॥१।१।१५॥
भेदव्यपदेशाच्च ॥ ११॥१६॥ ५ इतोपि न जीव आनन्दमयः । यतो भेदेन व्यपदिश्यते । रस
ह्येवायं लब्ध्वानन्दी भवति (ते. २१७ ) इति। आनन्दोस्यास्तीत्यानन्दी। एष ह्येवानन्दयाति । ( ते. २।७) आनन्दयतीत्यर्थः । चकारात् सूत्रद्वयेन जीवो नानन्दमय इति निरूपितम् ॥१।१।१६॥
तर्हि जडो भवत्वानन्दमयः । न । आन्तरत्वान्न कार्यरूपो भवति। १० किन्तु कारणरूपः स स्वमतेनास्त्येव । मतान्तरे प्रकृतिर्भवेत् । तन्निवारयति ।
कामाच्च नानुमानापेक्षा ॥१।१।१७॥
जडा प्रकृतिर्नास्तीति कारणत्वेन निराकृतैव । अथैतद्वाक्यान्यथानुपपत्त्या सत्त्वपरिणामरूपा कल्प्येत । सा कल्पना नोपपद्यते । कुतः । १५ कामात् । आनन्दमयनिरूपणानन्तरं-सोकामयत (ते. २१६) इति
श्रूयते । स कामश्चेतनधर्मः । अतश्चेतन एवानन्दमय इति । चकारात्स तपोतप्यत ( तै. २।६) इत्यादि । अतोनुमानपर्यन्तमर्थमबोधयद्वाक्यं न तिष्ठतीत्यर्थः ॥१।१।१७॥
अस्मिन्नस्य च तद्योगं शास्ति ॥११॥१८॥ २० ____ इतश्च न जड आनन्दमयः । अस्मिन्नानन्दमयेस्य जीवस्य च
आनन्दमयमात्मानमुपसंक्रामति (ते. २८) इति तेन रूपेण योगं शास्ति फलत्वेन कथयतीति । न हि जीवस्य जडापत्तियुक्ता । ब्रह्मैव
2-B reads नोपपद्यते for नोपपद्येत । 1.0-S reads यः for स। 14-B reads कल्प्यते for कल्प्येत । .17-A and M read अवबोधयत् for अबोधयत् ।