________________
अ. १ पा. १ मू. १४]
अणुभाष्यम् ।
जीव एक एव । तत्रान्नमये निःसंदिग्धत्वात्तस्यैष एवात्मेति नोच्यते । द्वितीयादि प्रथमोक्तमेवातिदिश्यते तत्रान्नमये हस्तेन प्रदर्शयन्निव निःसंदिग्धं व्याख्यातम् । तदन्तरो हि प्राण आन्तरव्यवहारकारणम् । बलभोजनविसर्गादिषूपयोगात् । तस्य संचार आकाशे परिनिष्ठितः पृथि, व्याम् । एवं लौकिकव्यवहारार्थं बाह्याभ्यन्तरभेदेन द्वयम् । तदनु
वैदिकव्यवहारः स च मनोमयः पुरुषः । आदेशः कर्मचोदना । ब्राह्मणानि सशेषाणि । अथर्वाङ्गिरसे ब्रह्मकर्मत्वात्प्रतिष्ठा । तदनु नानाविधयागादिसाधनवतः फलं विज्ञानमयः । तत्र श्रद्धा आपः । तृतीयाध्याये त्वयमों विस्तरेण वक्ष्यते । यथोक्तकर्तृत्वात्क्रममुक्तिः । . ऋतसत्यौ प्रमीयमाणानुष्ठीयमानौ धौं। योगश्च मुख्यत्वादात्मा।
अधोभागो महर्लोकः । तादृशस्य ततोक्सिंसृत्यभावात् । ततोपि ब्रह्मविद आनन्दमयः फलम् । तस्य स्वरूपस्यैकत्वाद् धर्मभेदेन शिरःपाण्यादि निरूप्यते । तस्य मुख्यतया प्रीतिविषयत्वं धर्मस्तच्छिरः। मोद
प्रमोदावपरिनिष्ठितपरिनिष्ठितावानन्दातिशयौ । आनन्दस्तु स्वरूपं साधन१. रूपत्वाद् ब्रह्म पुच्छमिति । श्लोको तु सच्चिदंशबोधको केवलानन्दत्वपरिहाराय । अपरौ तु श्लोको माहात्म्यज्ञापनाय वाग्गोचरागोचरभेदेन । अवान्तरानन्दास्तु सर्वे तस्मान्यूनतया तदुत्कर्षत्वबोधनाय । तस्मात्सर्वत्र प्रपाठके मान्त्रवर्णिकमेव प्रतीयते । अतो मुख्योपपत्तेविद्यमानत्वेनानन्दमयः परमात्मैव । चकारो मध्ये प्रयुक्तो विधिमुखविचारेणाधिकरणसंपूर्ण२. त्वबोधकः ॥१।१।१४॥
निषेधमुखेन च चतुःसूत्र्येदमेवाधिकरणं पुनर्विचार्यते सुदृढत्वाय॥ इदमत्राकूतम् । जीव एवानन्दमयो भवतु । फलस्य पुरुषार्थत्वात् । स ब्रह्मविदानन्दमयो भवतीति स्वर्गादिसुखवदलौकिकमेव रूपमानन्द
मयं जीवस्य फलभूतमिति प्राप्तेभिधीयते ॥ २५
नेतरोनुपपत्तेः ॥११॥१५॥ इतरो जीवो न । आनन्दमयो न भवति । कुतः । अनुपपत्तेः ।
1-A reads शारीर आत्मेति for आत्मति ।