________________
५ आनन्दमयाधिकरणम् । [ अ. ५ पा. १ म. १३ शब्दबलविचारेण मयटो विकारार्थत्वं निवारितम् । अर्थबलविचारेणापि निराकारोति ।
तद्धेतुव्यपदेशाच्च ॥११॥१३॥ हेतुत्वेन व्यपदेशो हेतुव्यपदेशः। तस्य हेतुव्यपदेशस्त तुव्यप५ देशस्तस्मात् । एष ह्येवानन्दयाति । आनन्दयतीत्यर्यः । सर्वस्यापि विकारभूतस्यानन्दस्यायमेवानन्दमयः कारणं यथा विकृतस्य जगतः कारणं ब्रह्माविकृतं सच्चिद्रूपमेवमेवानन्दमयोपि कारणत्वादविकृतोन्यथा तद्वाक्यं व्यर्थमेव स्यात् । तस्मान्नानन्दमयो विकारार्थः । चकारः समु
च्चयं वदन् सूत्रद्वयनैकोर्थों मध्ये प्रतिपादित इत्याह ॥१।१।१३॥ १० ननु किमिति निर्बन्धन सूत्रत्रयेणैवं वर्ण्यत । अन्नमयादिवदु
पासनापरत्वेनापि श्रुत्युपपत्तेः । पक्षपुच्छादित्वन मादप्रमोदादीनामुक्तत्वाच्च । तस्माद्ब्रह्मत्वेन साधितमपि आवश्यकोपपत्त्यभावान्न ब्रह्मपरत्वमिति प्राप्तेभिधीयते ।
मान्त्रवाणकमव च गम्यत ॥ ११॥१४॥ १५. सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् ।
सोश्नुते सर्वान्कामान्सह । ब्रह्मणा विपश्चिता ( तै. २।१ ) इति मन्त्रः । मन्त्रेणाभिधया वृत्त्या प्रतिपाद्यं मान्त्रवर्णिकं तदुपपादनग्रन्थे तदेव मुख्यतया ज्ञायते । तत्र यदुद्दिष्टं तदेव मुख्यतया ज्ञातव्यम् । उपपादनीयं च
संदिग्धम् । तत्र ब्रह्मणा विपश्चितेति संदिग्धं सर्वज्ञं तस्य हि फलत्वं २० वाक्ये नोपपाद्यते । फलं तु सर्वैः स्तुत आनन्दः । अभ्यासात्स्तुतत्वमित्य
वोचाम । शिरःपाण्यादिकं तु स्तुत्यर्थमेव । पुरुषविधत्वाय । लोके ह्यन्तर्भूतं बहिर्वेष्टितं च तदाकारं भवति ।
जीवोत्र मुख्यः । कर्तृत्वेन व्यपदेशात् । स च वस्तुतो हंसरूपः । पुरुषाधिकारकं • हि शास्त्रम् । तेन पुरुषशरीरे तदाकारः सर्व ५ फलं प्राप्नोति । अतः पुरुषं हंसरूपेणानुवर्णयति । पञ्चस्वपि शारीर आत्मा