________________
अ. १ पा. १ सू. ११]
अणुभाग्यम् ।
अननुभवे केवलं गुरूपदेशादिना तादृग्ब्रह्मास्तित्वज्ञाने स्वरूपतः सन्तं तं विदुर्न तु ज्ञानादिमन्तम् । तदसत्त्वज्ञाने त्वलीकतल्यमिति श्रुतितात्पर्यमिति ज्ञायते ।
एवं विचारचातुर्यवद्भिः सद्भिर्बजाधिपे । ५ आनन्दमयतानन्दसंदोहायावधार्यते ॥ १४ ॥ १।१।११॥
नन्वानन्दमयस्य न ब्रह्मता वक्तुं शक्या । मयटो लोके विकाराधिकारविहितत्वादित्याशङ्क्य स्वयमेव परिहरति ।
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥११॥१२॥
अनेनैव पूर्वसूत्रार्थः सिद्धो भविष्यति । विकारवाची शब्दो मयट१. प्रत्ययो यस्मिंस्तद्विकारशब्दं तस्मात् तच्छब्दवाच्यं ब्रह्म न भवति ब्रह्म
णोविकारित्वादिति चेत् नात्र विकारे मयट किन्तु प्राचुर्यात् । प्राचर्यमतति प्राप्नोतीति प्राचुर्यात् । तथा च पाणिनः । तत्प्रकृतवचने मयट (पा. सू. ५।४।२१) प्राचर्येण प्रस्तुतं वचनं तत्प्रकृतवचनं
तस्मिन्मयट प्रत्यया भवतीत्यर्थः । प्राचुर्यण पूर्वापेक्षयाप्याधि१५ क्येन-को ह्येवान्यात् कः प्राण्यात् (ते. २।७ ) इति वाक्ये
प्रकर्षण स्तुतम् । अतो मयट पूर्वापक्षया प्राचुर्यमयते । एकदेशनिर्देशन तदर्थलक्षणया प्राचुर्यः । प्राचर्येण प्रस्तुतार्थवाचकत्वादित्यर्थ इति वा । छन्दसि यज्व्यतिरिक्तस्थले मयटो विकारे विधानाभावाद् व्याकरणमप्यर्थनिर्णायकं विज्ञानमयानन्दमयशब्दौ पश्यन्नपि पाणिनिः २० मयड्वैतयोर्भाषायां (पा. सू. ४।३।१४३) यचश्छन्दसि (४।३।१५०)
इति कथमवोचत् । __अत्र कचित्सर्वविप्लववादिनो विकारार्थत्वं वदन्ति । श्रुतिसूत्रादीनामर्थाज्ञानात् । तद्वेदाद्यर्थविद्भिर्भगवतो नवमावतारकार्यं ज्ञात्वोपेक्ष्यम् । योर्थस्तमवोचाम ॥ १।१।१२ ॥
9-1B onm. शब्दो after विकारवाची । 13-S reads तन for प्राचुर्येण । 13-S rends तद्वचनं for वचनं ।