________________
३३
५ आनन्दमयाधिकरणम्। [अ. १ पा. १ म." स्पर्शमणिसंबन्धेन रजतादेहेमत्वमिवोक्तप्रकारकप्रवेशादाश्रयाणामाप तत्तदात्मकत्वमित्युच्यते । वस्तुतस्तु परोक्षवादोयमिति ज्ञायते । तथाहि ब्रह्मविदाप्नोति परमिति वाक्येन ब्रह्मविदः परप्राप्ति सामान्यत उक्त्वा तत्तात्पर्यं सत्यं ज्ञानमित्यूचोक्तम् । तत्र सर्वत्रात्मभाववान् भक्तो भगवता ५ सह तत्तत्स्वरूपात्मकान् कामान् भुङ्क्त इत्युक्तव्याख्यानेन तदर्थोवधार्यत उक्तभक्तस्य सदैव । विरहभावे तु विशेषतः प्रियस्वरूपातिरिक्तास्फूर्त्यानप्राणादिरूपः स एवेति ज्ञापनाय तत्तद्रूपत्वमुच्यते । तेन परमप्रेमवत्त्वं सिध्यति । ततो भगवदाविर्भावे सत्यपि पूर्वभावस्यातितीव्रत्वेन ज्ञानादि
सर्वतिरोधानेनाग्रिमरसानुभवो न भविष्यतीति स्वयमेव तदनुभवात्मको "भवतीति ज्ञापनाय विज्ञानरूपत्वमुच्यते । तदनुभवविषयः प्रकट आनन्दमय इति तत्स्वरूपमुच्यते । तत्र निरुपधिप्रीतिरेव मुख्या नान्यदिति ज्ञापनाय प्रियस्य प्रधानाङ्गत्वमुच्यते । तदा प्रियेक्षणादिभिरानन्दात्मक एव विविधरसभावसंदोह उत्पद्यते यः स दक्षिणः पक्ष उच्यते । ततः स्पर्शादिभिः पूर्वविलक्षणः प्रकृष्टानन्दसन्दोहो यः स उत्तरः पक्ष उच्यते । १५ नानाविधपक्षसमूहात्मकत्वात्तयोः पक्षयोर्युक्तं तथात्वम् । स्थायिभावस्यै
करूपत्वादात्मत्वमुच्यते यतस्तत एव विभावादिभिर्विविधभावोत्पत्तिः । परप्राप्तिसाधनीभूतब्रह्मज्ञानदशायां तदानन्दोपि यः पूर्वमनुभूतः स गणितानन्द इत्येतदानन्दानुभवानन्तरं तुच्छत्वेन भातीष्टगतावसाधनत्वेन स्वरू
पतोपि तस्माद्धीनत्वं चेति पृष्ठभागादपि दूरस्थितपुच्छरूपत्वं ब्रह्मण २० उच्यते । पुरुषोत्तमाधिष्ठानत्वात्प्रतिष्टारूपत्वं च । एवं सत्यक्षरादप्युत्त
मत्वेप्यप्रधानीभूय भक्तकामपूरणकर्तृत्वेसंभावना विपरीतभावना च संभवति । तदभावायासन्नेव स भवतीत्याद्युक्तम् । स्वानुभवाभावेपि गुरूपदेशेनापि तदस्तित्वमात्रमपि यो जानाति तं ब्रह्मविदः सन्तं सत्त्वधर्मविशिष्टं वर्तमानं च विदुरित्यग्रेवददस्ति ब्रह्मेति चेदित्यादिना । ब्रह्मा२५ सत्त्वज्ञानेसन् भवतीत्युक्त्वा सन्तमेनं विदुरिति तत्त्वेनान्यज्ञानं यदुक्तं
तेनोक्तपुरुषोत्तमानन्दानुभववन्तं ज्ञानक्रियाविशिष्टं जीवं वर्तमानं विदुः ।
22-B reads गुरूपदेशादिनापि for गुरूपदेशेनापि ।
• ५ [ अणु भाष्य ]