________________
अं. १ पा. १ सू. ११] अणुभाष्यम् ।
३२ षाद्विनिगमकाभावात्सर्वेषां सर्वत्र प्रवेशोप्रवेशो वा भवेदिति चेत् । अत्रेदं प्रतिभाति । अस्माल्लोकात्त्येति वाक्य इदंशब्दप्रयोगात्प्राकृतगुणमयं प्रपञ्चमतिक्रम्य गुणातीतं प्रपञ्चं साक्षाल्लीलयोपयोगिनं प्राप्नोतीत्यवगम्यते । तत्प्राप्त्यैव भगवद्भावे सम्पन्ने पूर्वंभगवद्विरहभावेनातितीव्रत्वेन सर्वोपमर्दिना ५ शरीरेन्द्रियप्राणान्तःकरणानि नष्टान्येव स्युर्यदि तत्तद्रूपं ब्रह्म तेषु तेषु न प्रविष्टं स्यात् । जीवस्य च ब्रह्मण्येव लथेन लीलारसानुभवेन नाश एव सः । तथा च तत्तद्रूपं ब्रह्म तेषु तेषु स्थितमिति न तेषां नाशः । जीवे त्वानन्दमयः पुरुषोत्तमः प्रविशतीति रसात्मकत्वादानन्दात्मकमेव विरहभावरसाब्धिमनुभूय पश्चात्प्रादुर्भूतप्रभुस्वरूपं प्राप्य न बिभेति कुत१० श्चनेति वाक्येन लोकात्तदभावमुक्त्वा-एत" ह वाव न तपति किमहं साधु
नाकरवं किमहं पापमकरवम् (ते. २।९ ) इति वाक्यैर्वेदाद्भयाभाव उच्यते । शरीरप्राणमनोन्तःकरणजीवात्मनां शरीरत्वं वाजसनेयिशाखायामन्तर्यामिब्राह्मणे पठ्यते । यस्य सर्वाणि भूतानि शरीरं यस्य प्राणः
शरीरं यस्य वाक् शरीरं यस्य चक्षुः शरीरं यस्य श्रोत्रं शरीरं यस्य १५ मनः शरीरं यस्य त्वक् शरीरं* (बृ. ३१७) इत्यादेरन्ते-यस्यात्मा
शरीरम् । ( बृ. ३७ ) इति । अत्र पूर्वोक्तनिर्गुणदेवानां भगवच्चरणरेणुजत्वेन विभूतिरूपत्वाद् ब्रह्मशरीरत्वम्। तत्रान्नमयतत्प्रवेशेन तत्स्थितिः प्राणेष्वपि तथा । ज्ञानेन्द्रियेषु विज्ञानमयप्रवेशात्तथा । मनसि मनोमय
प्रवेशात्तथात्वम् । जीवे त्वानन्दमयः प्रविशतीति तथात्वम् । अतो युक्तं २० पक्षित्वकथनम् ॥
आनन्दमयस्य स्वरूपं विशेषतो वक्तुमशक्यमिति यः पूर्वस्येति सर्वत्रोक्तम् । शरीरप्रवेशप्रयोजनकपक्षिरूपित्वं पञ्चस्वपि साधारणमिति तेषु तथा वदन्त्यानन्दमयेपि तथैवोक्तवती श्रुतिरिति ज्ञेयम् । एवं सति
4-A reads भावेतितीव्रत्वेन for भावेनातितीव्रत्वेन । 23-S reads तथोक्तवती for तथैवोक्तवती ।
* इदं वाक्य मध्ये मध्ये पठितानि पदानि गृहीत्वा पोक्तमिति दृश्यते । ..