________________
३१
५ आनन्दमयाधिकरणम्। (अ. १ पा. १ सू.१६ संहारेपि तथैव भवितव्यत्वादानन्दमयप्राप्तेरेवान्ते फलत्वेनोक्तेस्तदुत्तरमन्यस्यानुक्तेरानन्दमय एव परः ।
ननूपसंक्रमणं ह्यतिक्रमणमतो न तथेति चेत् । हन्तैवमतिक्रान्तशब्दार्था त्वन्मतिर्भाति । यत: संक्रमणशब्दः प्राप्त्यर्थकः सर्वत्र श्रूयते । अत एव ५ रवेर्मकरादिराशिप्राप्तौ तत्तत्संक्रमणमित्युच्यते । न चेयं न परममुक्तिः। अस्माल्लोकात्प्रत्येति पूर्वमुक्तेः । अत एव पुरुषोत्तमानन्दानुभवे सत्यनुभवैकगम्योयमानन्दो न मनोवाग्विषय इति ज्ञात्वा लोकवेदकालादिभ्योपि न बिभेतीति यतो वाच इति श्लोकेनोक्तवती । अन्यथा मनसोप्यगम्य
त्वमुक्त्वा विद्वानिति कथं वदेत् । एवं सति सोनुते सर्वान्कामान्सह । १० ब्रह्मणा विपश्चिता (तै. २-१) इत्यस्यामृचि यत्फलमुक्तं तदेवान्ते विवृतमिति ज्ञायते । अन्यथा-अस्माल्लोकात्मेत्य । ( तै. २८) इत्युक्तत्वाद् देहाभावेन भयानुपस्थित्या तन्निषेधासंभवः । कामभोगासंभवश्च । अत एव सामानाधिकरण्यमनुक्त्वा आनन्दं ब्रह्मण इत्युक्तम् । एतेन लौकिकं पूर्वदेहं त्यक्त्वा साक्षाद्भगवद्भजनोपयोगिनं भगवद्विभूत्यात्मकं संघातं १५ प्राप्नोत्यादौ । तथाहि । देहेन्द्रियप्राणान्तःकरणजीवात्मको हि संघातः । तत्र स्थूलं शरीरमाद्यविभूतिरूपम् । द्वितीयं स्पष्टम् । तृतीयं सर्वेन्द्रियसंचन्धित्वेनेन्द्रियरूपत्वेन चान्तःकरणात्मकत्वेन चेन्द्रियान्तःकरणरूपम् । तुरीयं जीवतत्त्वात्मकम् । यत्र गुहायां भगवतरणेन परव्योमाविर्भावस्ततः पूर्णानन्दात्मकं पुरुषोत्तमस्वरूपं फलरूपं प्राप्य उक्तर्गर्थरीत्या तेन सह २० सर्वकामाशनमेव मनोवाग्विषयानन्दवेदनं तद्वान् भवतीति वाक्यैकवाक्यतयावगम्यते।
अथेदं विचार्यते । पुरश्चक्रे द्विपद इति श्रुतौ वस्तुतस्तु पुरुष एव परं तु पुरः संबन्धी सन् पक्षी भूत्वा पुर आविशदिति निरूपितम् । प्रकृते
चान्नमयादयस्तथैवोक्ताः । एवं सत्येकस्यां पुरि बहूनां तेषां प्रवेशो न २५ वक्तुमुचितः । प्रयोजनाभावादित एकैकस्यां पुरि तथा वाच्यः । तत्र
कीदृश्यां तस्यां कस्य प्रवेश इति विचार्यमाणे प्राकृतत्वब्रह्मत्वयोरविशे