________________
अ. १ पा. . सू. ११]
अणुभाष्यम् ।
तेषां च पञ्चरूपत्वात्तावतामेव निरूपणम् । अतोस्मादन्य एव पर इति प्राप्ते प्रतिवदति-आनन्दमयोभ्यासात् । आनन्दमयशब्दवाच्यः पर एव कुतः । अभ्यासात् । तस्यैष एव शारीर आत्मा यः पूर्वस्य (तै. २।५) इत्यन्नमयादिषु सर्वत्रैवात्मत्वेनानन्दमयस्यैव कथनात् ॥ ५ ननु न किंचिन्मानमत्र पश्यामः । किञ्चानन्दमयस्यैव सर्वत्रात्मत्वेन कथन आनन्दमयेपि तस्यैष एवेत्यादि न वदेदयमेव पूर्वस्यात्मेति वदेदतो नानन्दमयः पर इति चेत् उच्यते । नहीश्वरादन्यः सर्वेषामेक आत्मा भवितुमर्हति । तस्यानन्दरूपत्वं तु-एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ. ४।३।३२) इति । रसो वै सः । रस ह्येवायं १. लब्ध्वानन्दी भवति । को ह्येवान्यत्कः प्राण्यात् । यदेष आकाश आनन्दो
न स्यात् । एष ह्येवानन्दयाति (ते. २७ ) इत्यादिश्रुतिभिर्निीयते । एवं सति तदेकवाक्यतायै प्रकृतोप्यानन्दमयशब्दस्तद्वाच्येवेति मन्तव्यम् । अन्यथानन्दमयादन्योन्तर आत्मेत्येव वदेत् । ननूक्तमाध्या
त्मिकानामेवात्र निरूपणादित्यादीति चेत् । न । उक्तरीत्याधिदैविकस्यान्ते १५ निरूपणात् । अत एव भार्गव्यां विद्यायामपि भृगोरन्नमयादिज्ञानानन्तर
मपि पुनर्ब्रह्मजिज्ञासोक्ता । न त्वानन्दमयज्ञाने । नहि भृगोराध्यात्मिकज्ञानार्थं प्रवृत्तिः किन्तु ब्रह्मज्ञानार्थमेव । अधीहि भगवो ब्रह्म (ते. ३१ इति प्रश्नवचनात् ।
किंच । ब्रह्मविदाप्नोति परम् ( ते. २।१ ) इत्युपक्रमादन्ते ज्ञेया२० नन्दगणनामुक्त्वा-स यश्चायं पुरुषे यश्चासावादित्ये स एकः (ते. २।८) इति वाक्यैर्ब्रह्मविदि पुरुष आदित्ये च तदेवाक्षरं ब्रह्म प्रतिष्ठितमिति तदानन्दोपि तथैवेति तयोरानन्दयोरैक्यम् । एवंरूपं ब्रह्मेति यो वेद तस्य क्रमेणान्नमयादिप्राप्तिमुक्त्वा अन्ते वदन्ति-एतमानन्दमयमात्मानमुपसंकामति ( तै. २।८ ) इति । एवं सत्युपक्रमे फलप्राप्तेः फलत्वेनोक्तेरुप
8-S reads आनन्दत्वं for आनन्दरूपत्वं । 13-C, D and E read आत्मेत्यपि for आत्मेत्येव ।