________________
५ आनन्दमयाधिकरणम्। [अ. १ पा.१ सू.११ ब्रह्मज्ञानानां परंपरा नोपपद्यत इति चेत् मैवम् । भगवतो हि विभूतिरूपाण्यनन्तानि । तत्र येन रूपेण यत्कार्यं करोति तेन रूपेण समर्थोपि तदतिरिक्तं न करोति । तथैव तल्लीला यतः । तथा चान्नमयादिरूपैः
क्षुद्राण्येव फलानि ददाति। हीनाधिकारिणां तावतैवाकाङ्क्षानिवृत्तिर्भवति । ५ एवं सति यादृशेनाधिकारणान्नमयस्वरूपज्ञानं भवति तादृशे तस्मिन्संपन्ने तज्ज्ञानमपि तथा । एवमेवोत्तरत्रापि । तथा चाकाशादिरूपमाधिभौतिकस्वरूपमुक्त्वाध्यात्मिकं तत्पुरुषरूपं वदन्ती पक्षिरूपमाह । यतस्तेनैव रूपेणाधिभौतिके रूप आध्यात्मिकस्य पुरुषस्य प्रवेशः । तदुक्तं वाजसनेयिशाखायाम् । परश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा १० पुरः पुरुष आविशत् (बृ. २।५।१८) इति । वस्तुतस्तु पुरुष एव परन्तु
पुरः संबन्धी सन् पक्षी भत्वा पुरः शरीराण्याविशदित्यर्थः । प्राकृतीषु विविधासु पूर्वप्राकृतस्यैकावधस्य प्रवेशोनुचितो यद्यपि तथापि स्वप्रवेशं विना न किंचिद्भावीति गतिप्रतिबन्धकमुल्लध्यालौकिकया गत्या प्रवि
शामीति ज्ञापनाय पक्षिभवनम् । स हि तादृशः । अत एव द्विपदश्च१५ तुष्पद इत्युक्तम् । आधिदैविक एक एवेति यः पूर्वस्येति सर्वत्रोक्तम् ।
नन्वानन्दमयेप्येवमुक्ते यमपि परमकाष्ठापन्नरूपः । किंतु पूर्वोतेभ्योतिशयितधर्मवान् विभूतिरूप एव । न च शिरआदीनामानन्दरूपत्वेनैवोक्तेरयं परमात्मैवेति वाच्यम् । अन्नमये यथावयवानां तद्रूपत्वं
तथानन्दमयेपि तेषां तद्रूपत्वात् । अन्यथा तस्यैष एव शारीर आत्मेति २० न वदेत् । शरीरं हि पूर्वोक्तं तत्संबन्धी हि शारीरस्तद्भिन्नः प्रतीयते । तथा च परब्रह्मत्वं स्वान्यात्मवत्त्वं च सर्वश्रुतिविरुद्धम् । नन्वेतदतिरिक्तं चेद्ब्रह्म स्यात्तदानन्दभयादन्योन्तर आत्मा ब्रह्मेत्यपि वदेत् । न त्वेवमतोयं पर एवेति चेत् । न । आध्यात्मिकरूपाणामेवात्र निरूपणात् ।
-A reads अधिकारस्मिन्संपन्ने कि तम्मिन संपन्ने । 7-S reads स्वरूपं for रूप । 15-B reads इति for इत्युक्तम् । 17-A reads धर्मवाची for धर्मवान् ।