________________
अ. १ पा. १ सू. ११]
अणुभाष्यम् ।
७-२५-२) इति । एतच्च लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि (ब्र. सू. ३-३-४३) इत्यधिकरणे प्रपञ्चयिष्यते । ____अथवा तदेषाभ्युक्तेति वाक्येन पूर्ववाक्योक्तब्रह्मनिरूपिकेयमृगित्युच्यते । तत्र साधनफले निरूपिते इत्युच्यपि ते एव निरूप्येते । ५ तथाहि । आनन्दस्य फलात्मकत्वेन साधनशेषभूते ब्रह्मणि तमनुक्त्वा
यो वेदेत्यन्तयर्चा ब्रह्मविदित्येतावतो वाक्यस्य विवरणं क्रियते । एतेन फलाप्तौ स्वरूपयोग्यतासम्पत्तिरुक्ता । तत उक्तरीत्या भगवद्वरणेन भक्तिलाभे मुहायामाविर्भूतं यत्परमं व्योम तस्मिन्निहितः पुरुषोत्तम एवेति । तं निहितमिति तृतीयार्थे द्वितीया । तथा च तत्र निहितेन ब्रह्मणेत्यग्रे १० पूर्ववत् ॥
अथ परमफलत्वानिरवध्यानन्दात्मकत्वमन्तरङ्गेभ्योप्यन्तरङ्गत्वं स्वस्मिन् ज्ञापयितुं सर्वस्य सर्वरूपत्वेन सर्वाधिदैविकरूपत्वमपि ज्ञापयितुमाधिभौतिकादिरूपेणाविर्भवितुं भगवानाकाशादिरूपेणाविर्भूतोत एव भवन
आकाशस्यैव कर्तृत्वमुच्यते । अग्रेन्नमयादीनि चत्वारि रूपाणि पूर्व ५५ निरूपितान्युत्तरोत्तरमन्तरङ्गभूतानि। अन्नरसमयशरीरभूतात्प्राणमयस्तस्मान्मनोमयस्तस्माद्विज्ञानमयः ॥ कश्चित्त्वेतानि रूपाणि विकारात्मकत्वात्पाकृतान्यवतेभ्योप्यन्तरङ्गो विमुक्ताविद्यो जीव एवानन्दमय उच्यत इत्याह । स प्रतिवक्तव्यः । अग्रिमप्रपाठके भृगणा-अधीहि भगवा ब्रह्म (ते. ३-१)
इति पृष्टो वरुणस्तदोत्तमाधिकाराभावात् स्वयं ब्रह्मस्वरूपमनुक्त्वा तपसा.. धिकारातिशयक्रमण स्वयमेव ज्ञास्यतीति तदेव साधनं सर्वत्रोपदिष्टवान् ।
तपसा ब्रह्म विजिज्ञासस्व (तै. ३-२ ) इति । ब्रह्मातिरिक्तेन साधनेनन तज्ज्ञातुं शक्यमिति ज्ञापनाय तपो ब्रह्मेति सर्वत्रोक्तवान् । तथा च तपसा साधनेन ब्रह्मत्वेन ज्ञातानि रूपाणि प्राकृतानीति विचारकेण न वक्तुं शक्यमिति तर्हि पुनर्बह्मविषयकप्रश्नसाधनोपदेशतत्कारणपूर्वातिरिक्त
12-A oni. सर्वस्य after ज्ञापयितुम् । 24-S reads तत्करण for तत्कारण ।