________________
५ आनन्दमयाधिकरणम् ।
[ अ. १ पा. १ स. ११
२-४-१४–४–५–१५ ) इत्युपक्रम्य - यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् (बृ. २-४ -१४ – ४ – ५ – १५ ) इत्यादिनान्यदर्शननिषेधात् ब्रह्मविदः कामोपभोगासंभवश्वेति चेत् । मैवम् । तदेषाभ्युक्ता ( तै. २ - १ ) इति वाक्येन पूर्ववाक्योक्तार्थनिरूपिकेयमृगित्युक्तत्वेन ५ प्राकृतगुणसंबन्धस्य तत्र वक्तुमशक्यत्वात् । तथा सति ब्रह्मवित्प्राप्यत्वपरत्वयोरसंभवापत्तेः । न च वेद्यस्यागुणत्वमुत्तरस्य सगुणत्वमिति वाच्यम् । परत्वानुपपत्तेः । साधनशेषभूतस्यागुणत्वं तत्फलस्य सगुणत्वमित्यसंगततरं च यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ( १०- २८ - १५ ) इति श्रीभागवतवाक्येन गुणातीत पुंसां वैकुण्ठदर्शनाधिकार उच्यते १० यत्र तत्र किमु वाच्यं तत्परदर्शने । यच्चोक्तं ब्रह्मविदो द्वैतदर्शनानुपपत्त्या कामभोगासंभव इति तत्राप्युच्यते । यत्र त्वस्य सर्वमात्मैवाभूत् (बृ. २४-१४-२-५-१५ ) इति श्रुतिरखण्डब्रह्माद्वैतभाने ब्रह्मविदः प्रापञ्चिकभेदादर्शनं वदति नतु प्रपञ्चातीतार्थदर्शनं बोधयति निषेधति वा । पुरुषोत्तमस्वरूपं तु यावत् स्वधर्मविशिष्टं प्रपञ्चातीतमेवेति तद्दर्शनादौ १५ किमायातम् । पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ( शु. य. सं. ३१२ ) इत्यनेन ब्रह्मात्मकत्वं प्रपञ्चस्योक्त्वैतदपि तस्य विभूतिरूपं पुरुषस्त्वितो महानित्याह । एतावानस्य महिमा । अतो ज्यायांश्च पूरुषः ( शु. य. सं. ३१-३ ) इति श्रुतिः । अतो न किञ्चिदनुपपन्नम् । एवं सति ब्रह्मविदः परप्राप्तेः पूर्वदशा तत्केनेत्यादिनोच्यते । उत्तरदशा तु २० सोनुते इत्यनेनोच्यत इति सर्वं सुस्थम् ॥ छन्दोग्येपि यत्र नान्यत्पश्यति ( छां. ७–२४–१ ) इत्यादिना भूमस्वरूपमुक्त्वा— आत्मैवेदं सर्वम् (छां. ७-२५-२ ) इत्यन्तेन तद्वद्भावमुक्त्वोच्यते । स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति सर्वेषु लोकेषु कामचारो भवति ( छां.
२७
2- A and B read दर्शनादि for दर्शन ।
7-S reads साधनशेषस्यं for साधनशेषभूतस्य ।
22–1, B, C and S read तद्विभावम् for तद्भावम् ।