________________
२६
अ. १ पा. १ सू. ११] अणुभाग्यम् । स्थापितमिव वर्तमानं यो वेद स भक्तो ब्रह्मणा नित्याविकृतरूपेण विपश्चिता । विविधं पश्यच्चित्त्वं हि विपश्चित्त्वं पृषोदरादित्वात्पश्यच्छन्दावयवस्य यच्छब्दस्य लोपं कृत्वा व्युत्पादितो विपश्चिच्छब्दः।
तेन विविधभोगचतुरेण सह सर्वान्कामानात इत्यर्थः । एतेन परप्राप्ति५ पदार्थ उक्तो भवति । शुद्धपुष्टिमार्गीयत्वादस्य भक्तस्य स्वातन्त्र्यं भोग उच्यते । सहभावोक्तया ब्रह्मणो गौणत्वम् । अत एव भक्ताधीनत्वं भगवतः स्मृतिष्वप्युच्यते । अहं भक्तपराधीनः ( भा. ९।४।६३) वशे कुर्वन्ति मां भक्तया ( भा. ९।४।६६ ) इत्यादिवाक्यैः ।
___ यद्यप्यश भोजन इति धातोरश्नातीत्येव रूपं भवत्यशूङ् व्याप्ताविति १० धातोर्भवत्यभुत इति रूपं विकरणभेदात्पदभेदाच्च । तथाप्यत्राश भोजन
इति धातोरेव प्रयोग इति ज्ञायते । तथाहि । अत्राशनक्रियायां ब्रह्मणा सहभाव उच्यते । तथाच व्याप्तयर्थकत्वे ब्रह्मणा सहभूतान्कामान् व्याप्नोतीत्यर्थो भवति । अथवा ब्रह्मणा सहभूतः स जीवः कामान् व्याप्नो
तीति । एतौ त्वनुपपन्नौ । नहि कामवज्जीवकर्तृकव्यापनक्रियाकर्मत्वं ब्रह्माण १५ सम्भवति । अतिमहत्त्वात् । व्यापनं चात्र स्वाधीनीकरणमेव वाच्यम् ।
नहि कामानां तथात्वं स्वतः पुरुषार्थरूपं भोगशेषत्वात्तेषाम् । पूर्वोक्तपरप्राप्तिव्याकृतिरूपत्वाञ्चास्य तथार्थोनुपपन्नः । तेनाश भोजन इति धातोरेवायं प्रयोगोर्थस्यालौकिकत्वज्ञापनायालौकिकः प्रयोगः कृतः । व्यत्ययो बहुलम् (पा. सू. ३१८५) इति सूत्रेण छन्दसि तद्वि२. धानात् । भाप्रत्ययपरस्मैपदयोर्व्यत्ययेन भुप्रत्ययात्मनेपदे जात इति
भोगार्थक एवायं धातुः । एवमेव न तदनोति कंचन न तदनोति कश्चन ( ब. ३१८१८) इत्यत्र प्रत्ययमात्रव्यत्ययेन प्रयोगोशधातोरेवेति ज्ञेयम् । अन्यथा सर्वव्यापकस्य ब्रह्मणस्तन्निषेधोनुपपन्नः स्यात् ।
ननु सकामोत्रोपासकस्तदुपास्यं च सगुणं ब्रह्म द्वयोरपि कामो२५ पभोगश्रवणात् । यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति ( बृ.
3-B om. यच्छ दस्य after पश्यच्छन्दापयवस्य ।