________________
२५
५ आनन्दमयाधिकरणम्। [अ. १ पा. १ सू.११ तद्धर्मपुरःसरं परमानन्द एवानन्तशब्देनोच्यतेत्र। सत्यं विज्ञानमानन्द ब्रह्म ( स. सा. ३) सच्चिदानन्दविग्रहम् । ( मुण्ड. १।४) इत्यादिश्रुतिषु त्रयाणामप्येकप्रक्रमपठितत्वात् । द्वितयोक्तौ तन्नियतसहचरितत्वेनानुक्तोप्यानन्दः प्राप्स्यत एवेत्याशयेन वानन्दः स्फुटतया नोक्तः । ५ अथ वेदनपदार्थमाह । यो वेदेत्यादिना । अत्रेदमाकूतम् । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणते तनं स्वाम् (मण्ड. ॥२॥३) इति श्रुत्या वरणेतरसाधनाप्राप्यत्वमुच्यते । एवं सति श्रुतिद्वयविरोधपरिहारायाक्षरब्रह्म
ज्ञानेनाविद्यानिवृत्त्या प्राकृतधर्मराहित्येन शुद्धत्वसम्पादनेन पुरुषोत्तम५० प्राप्तौ स्वरूपयोग्यता सम्पाद्यते । तादृशे जीवे स्वीयत्वेन वरण भक्ति
भावात् सहकारियोग्यतासंपत्या पुरुषोत्तमप्राप्तिर्भवतीति निर्णीयते । तदैव गुहायां परमव्योमाविर्भावः । परो मीयते दृश्यतेनेनेति तथा । ज्ञानमार्गीयजीवज्ञेयप्रकारकाद्वैशिष्ट्येनापि तथा । परमव्योम्नीत्यलौशिव
त्वज्ञापनायालौकिकः प्रयोगः कृतः । भक्त्याहमेकया ग्राह्यः । नाहं १५ वेदैः ( भ. गी. १११५२) इत्युपक्रम्य-भक्त्या त्वनन्यया शक्यः
( भ. गी. ११।५४ ) इत्यादिस्मृतिरप्येवमेव संगच्छते। अन्यथा ज्ञानमार्गिणामपि ब्रह्मविदां परप्राप्तिरेव स्यान्न त्वेवम् ।
मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने । तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं नच वैराग्यं प्रायः श्रेयो भवेदिह ॥ (भा. ६।१४।५-६)
इत्यादिवाक्यैरेतदेवाह । गुहायां हृदयाकाशे यदाविर्भूतं परम व्योमाक्षरात्मकं व्यापि वैकुण्ठं तस्य पुरुषोत्तमगृहरूपत्वात् तत्र निहितं
3-B reads द्वितीयोक्तौ for द्वितयोक्ती। 17-A and B om. एव after परप्राप्तिः । 20-A reads महात्मनः for महात्मनः ।
[ अणुभाण्य]