________________
अ. १ पा. १ मू. ५१]
अणुभाष्यम् ।
इति श्रुतेश्च तानि तानि साधनानि कारयित्वा तानि तानि फलानि ददद्भगवान् स्वक्रीडार्थमेव जगद्रूपेणाविर्भूय क्रीडतीति वैदिकैर्निीयते । एतदेव काण्डद्वयपि प्रतिपाद्यते । अन्यथा जीवस्य साधनफले निरूपयन्त्याः श्रुतेर्जीवपरत्वमेव स्यान्न ब्रह्मपरत्वम् । कर्मब्रह्मणोरपि जीवशेषत्वं ५ नापेयात् । एवं सति पूर्वकाण्डेवान्तरफलान्युक्त्वा एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ. ४-३-३२) इति श्रुतेर्निरवध्यानन्दात्मकमेव परमं फलमिति तद्विवक्षमाणा पूर्वं सामान्यत आह ससाधनं तैत्तिरीये । ब्रह्मविदाप्नोति परम् ( ते. २-१ ) इति । अक्षरब्रह्मवित्परं ब्रह्मामोतीत्यर्थः । अत्र परशब्दस्य पर्वपरत्वे तदित्येव वंदत् । पूर्वं ब्रह्मो१. क्त्वाग्रे यत्परमित्याह तेन सांनिध्यात्तत एव परं पुरुषोत्तमरूपमेवात्राभिप्रेतमिति ज्ञायते ।
किञ्च । प्रतिवादिना तदाप्तिर्ज्ञानात्मिकैव वाच्या । तथा सति ब्रह्मप्राप्तो ब्रह्म प्राप्नोतीत्यर्थः स्यात्स चासङ्गतः । साधनसाध्यभावव्याहतिश्च ।
अतः परं तद्विशेषविवक्षमाणानुभवैकगम्यं तत्स्वरूपं नान्यमानगम्यमिति ज्ञापयितुमन्यमुखेनाह । तदेषाभ्युक्ता ( ते. २१) इति । अन्यथा सर्वार्थतत्त्वप्रतिपादिका श्रुतिरेवं कथं वदेत् । तदित्यव्ययम् । तथा च तत्पूर्वोक्तं ब्रह्मविदः परप्राप्तिलक्षणमर्थं विशदतया प्रतिपाद्यत्वे
नाभिमुखीकृत्योपगृह्य ऋगेषा विदितपरब्रह्मकैरुक्ता । पूर्ववाक्योक्तार्थस्य २. वैशद्यमनया क्रियत इत्यर्थः सम्पद्यते । तामेवाह। सत्यं ज्ञानमनन्तं ब्रह्म ।
यो वेद निहितं गुहायां परमे व्योमन् । सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । (ते. २-१ ) सोपपत्तिकमानन्दात्मकत्वमग्रे निरूपणीयमित्यधुना तदनिरूप्य सच्चिदंशी देशकालापरिच्छिन्नत्वं चोक्तवती।
अथवा अक्षरब्रह्मण्यानन्दात्मक सत्यपि तस्य परिच्छिन्नत्वान्न २५ परमफलत्वम् । अत आनन्देपरिच्छिन्नत्वमेव परमफलतावच्छेदकमिति
6-C rends निरवद्यानन्दात्मकमेव for निरवध्यानन्दात्मकमेव । 24-A, B and ग read आनन्दात्मकत्वे for आनन्दानके ।