________________
२३
५ आनन्दमयाधिकरणम् । [ अ. १५.५. १५
फलस्य ब्रह्मत्वं प्रतिपादनीयम् । तत्राह्मान्नमयादितुल्यवचनात सुखवाचकशब्दानांमेव वचनाच्च संदेह: । आनन्दांशस्यैव कारणत्वेन ब्रह्मत्वप्रतिपादनार्थत्वात् । तदभावे प्रपाठकवैयर्थ्यं च । फलस्य नैकट्यप्रतिपादनायात्मपदप्रयोगेण फलरूपेण जगत्कारणतामुक्त्वा तस्यैव मध्ये ५ सर्वान्तरत्वमुपपादितम् । तस्माद्वा एतस्माद्विज्ञानमयादन्योन्तर आत्मानन्दमयः ( तै. २-५ ) इति । अन्ते च एतमानन्दमयमात्मानमुपसंक्रामति ( २८ ) इति । आदिमध्यरूपे अन्य फलत्वनोपपादितम् । तन्निरूपकस्यापि तत्तुल्यफलत्वं वक्तुमन्नमयादीनामपि ब्रह्मत्वेनोपासनमुक्तम् | तत्र पूर्वपक्षेन्नमयांदेरिवानन्दमयस्यापि न ब्रह्मत्वम् । अन्नमयादितुल्यवचनात्तथैव फलसिद्धेरिति । एवं प्राप्तेभिधयिते ।
१०
आनन्दमयोभ्यासात् ॥ १ ॥१॥११॥
आनन्दमयः परमात्मा । नान्नमयादिवत्पदार्थान्तरम् । कुतः । अभ्यासात् । अभ्यस्यते पुनः पुनः कीर्त्यत इत्यभ्यासस्तस्मात् । अभ्यासस्य भेदकत्वं पूर्वतन्त्रसिद्धम् । यथा पूर्वतन्त्रे शब्दान्तराभ्याससंख्यागुण१५ क्रियानामधेयानां षण्णां कर्मभेदकत्वमेवमेवानन्दमयस्याप्यभ्यासात् पूर्ववैलक्षण्यम् । अतातुल्यत्वाद् ब्रह्मत्वम् । एवमभ्यासः श्रूयते । को ह्येवान्यात्क: प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति (तै. २-७) इत्यर्थतोभ्यासः स्तुत्या । मयडर्थप्रकृतिस्तु तुल्या | पुनर्वचनेनाभ्यासेन प्रवाहाद्भेदे साधिते ब्रह्मत्वम् । न तु द्वयापत्ति: । उत्तरस्य २० साधकत्वात् । तस्मादानन्दमयं ब्रह्मैव ।
अथवा स नैव रेमे तस्मादेकाकी न रमते । स द्वितीयमैच्छत् । स हैंतावानास ( बृ. १।४।३ ) इत्यादिश्रुतिभिः । एष उ एव (को. २८)
5- A reds प्रतिपादितम् for उपपादितम् ।
10-S reads इति for एवं ।
13-s reads अभ्यास भैदकत्वं for अभ्यासस्य भेदकत्वं ।
10-Band Mrend प्रक्रिया for क्रिया ।
19-3 reads मेदापत्तिः for इयापत्तिः ।