________________
अ. १ पा. १ सू. ९
अणुभाष्यम् ।
वखिल्य उदके प्रास्तः (बृ. २-४-१२-~-४-५-१३) इत्यादिना लयदृष्टान्तं निरूप्य-न प्रेत्य संज्ञास्ति ( बृ. २-४-१२--४-५-१३ ) इति प्रतिपाद्य तन्निरूपणार्थ-यत्र हि द्वैतमिव भवति तदितर इतरम् । (ब. २-४-१३----'४-५-१५ ) इत्यादिना सर्वस्य शुद्धब्रह्मत्वं दर्शि५ तम् । आदिमध्यावसानेषु शुद्धब्रह्मण एवोपादानात सर्वषां वेदान्तानां ब्रह्मसमन्वय उचित इति ॥ १।१।२ ॥ __किंच।
श्रुतत्वाच ॥ ११॥१०॥ पूर्णमदः पूर्णमिदं पर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्ण१० मेवावशिष्यते (बृ. ५-१-१ ) इति श्रुत्यैवासंदिग्धं सर्वकार्यत्वं प्रति
पादितम् । सर्वं वेदा यत्पदमामनन्ति ( कठ. १-२-१५ ) इति च ! चकाराधिकरणसंपूर्णत्वद्योतनाथ ।
पावं चिपम्य कारणता निरूपणेन वेदान्तानां ब्रह्मपरत्वं निरूपितम्॥ ॥ ४ ॥ १।१।१० ॥
५ आनन्दमयाधिकरणम् । अतः परमानन्दरूपस्य कारणत्वापपादनेन तद्वाक्यानां ब्रह्मपरत्वमपपाद्यत आनन्दमयाद्यष्टभिः सूत्रैः । तत्र तत्तिरीयशाखायां ब्रह्मभृगुप्रपाठकद्वयेन । तत्रानन्दमय इति मयट्प्रत्ययान्तस्याब्रह्मत्वेनाजगत्कर्तृत्वे ब्रह्म
प्रपाठकस्याब्रह्मपरत्वं स्यात् इति तन्निराकरणार्थमानन्दमयाधिकरणम् । २० षडिन्द्रियस्वरूपद्वयानन्दभेदेनानन्दस्याष्टविधत्वादष्ट सूत्राणि ।
ननु कथं संदेहः । कथं वास्याब्रह्मत्वे प्रपाठकासंगतिरिति । उच्यते । ब्रह्मविदः परप्राप्तिं प्रतिज्ञाय ज्ञेयांशे कारणत्वायानन्दांशमप्रवेश्य जडत्वपरिहाराय सर्वज्ञानन्दरूपं फलमुपपाद्य तन्निरूपणार्थं सर्वोपि प्रपाठक आरब्धः । तत्र साधनशेष ब्रह्मणो वाक्यादेव निःसंदिग्धप्रतीते:
5-Com. उचित after समन्वय । 16- reads अजगत्कारणस्वे for अजगत्कर्तृन्वे ।