________________
४ ईक्षत्यधिकरणम् ।
अ. १ पा. १ मू. ९
इति सूत्रत्रयेण । ननु किमर्थं हत्वन्तराणि । साधकत्व एकेनापि तत्सिद्धेः । असाधकत्वे शतेनाप्यसिद्धेरिति चेत् । मैवम् । रूपभेदार्थं हेत्वन्तराणि नानाविधानभोजनतृप्तिवत् । तद्यथा । आत्मशब्दात् ( ब्र. सू. ११.--'५ ) तन्निष्ठस्य मोक्षोपदेशात् ( ब्र. सू. १-१-६) हेयत्वा५ वचनाञ्च ( ब. सू. १-१-७ ) इति निर्गुणस्य स्वरूपपरतया कार्यपरतया च कार्यस्य पुनर्विधिनिषेधभेदाद द्विरूपतेति । एवमुत्तरत्रापि प्रपञ्चयिष्यते ॥ तत्र सृष्टिवाक्यानामीक्षतिहेतुना भगवत्परत्वमुक्तम् । इदानीं प्रलयवाक्यानामाह।
स्वाप्ययात् ॥ ११॥८॥ १० ब्रह्मणो न सर्वव्यवहारातीतत्वम् । कुतः । स्वाप्ययात् । स्वस्मिन्न
प्ययात् । तत्र चित्प्रकरणत्वाज्जीवस्यांच्यते । एवं हि श्रूयते । यत्रतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति तस्मादेनं स्वपितीत्याचक्षते । स्वं पपीता भवनि ( छ...-६-८-१ ) इति । स्वपितीति न क्रियापदं किन्तु जीवस्य नाम । तदेव स्वपितीति नामत्वं यदा सता १५ सम्पद्यते । सति स्वशब्दवाच्यपीतिं लयं प्राप्नोतीत्यर्थः । अहरहर्जीवा ब्रह्म संपद्य ततो बलाद्यधिष्टानं प्राप्य पुनर्नव इव समायाति वासनाशेषात् । स्वशब्देन चाभेदः । अर्थतः सच्छब्दसामानाधिकारण्यान्निगुणत्वम् । ननु प्रलये वक्तव्ये कथं सुषुप्तिः । मोक्षातिरिक्तदशायां तथा
कर्मसंबन्धाभावादिति बमः ॥ १।१।८ ॥ २. मुक्तिवाक्यानामाह ।
गतिसामान्यात् ॥११॥९॥ गतौ सामान्यात् । गतिर्मोक्षः । समानस्य भावः सामान्यम् । मोक्षे सर्वस्यापि भगवता तुल्यत्वात् । एवं हि श्रूयते। यथा सर्वासामपासमुद्र
एकायनम् (बृ. २-४-१३-४-५-१२) इत्युपक्रम्य-वागेकायनम् ! २५ ( व. २-४-१ १.-.-..-५-१२) इति दृष्टान्तार्थं निरूप्य-स यथा सैन्ध
1.- reads स्वपिति tor स्वपितीति ।