________________
अ. पा. १ सू. ५]
अणुभाष्यम् ।
सिद्धः । तस्यैव जगत्कर्तृत्वं श्रुतिराह । ननु चोक्तमन्यतरबाधो युक्त इति । न युक्तः । स्वातन्त्र्याभावेन सगुणस्य कर्तृत्वायोगात् वेदाश्व प्रमाणभूताः । ततः सर्वभवनसामर्थ्यमेव श्रुतिचललभ्यमङ्गी कर्तव्यम् । किं च अस्तिभातिप्रियत्वादिधर्मवत् ब्रह्मगतकर्तृत्वं लोके प्रतीयते । ५ कार्यत्वात् । तस्मादात्मशब्दप्रयोगाद् गुणातीतमेव कर्तृ ॥ ११५ ॥ नन्वात्मशब्दोपि लोकवद्गौणोस्तु । लोके हि केनचित्पृष्टो विष्णुमित्र आह । यज्ञदत्तो ममात्मेति । अत्र गौणत्वमुपचार इत्येवं प्राप्तेभिधीयते ।
तन्निष्ठस्य मोक्षोपदेशात् ॥ १|१|६ ॥
एवं हि श्रूयते । असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानं स्वयमकुरुत (तै. २ - ७ ) इत्युपक्रम्य - यदा वै एतस्मिन्नदृश्येनात्म्येनिरुक्तेनिलयनेभयं प्रतिष्ठां विन्दते । अथ सोभयं गतो भवति । ( तै. २ - ७ ) इति । प्रापञ्चिकधर्मरहिते ब्रह्मण्येतस्मिन्पूर्वोक्तजगत्कर्तरि परिनिष्ठितो मुक्तो भवतीत्यर्थः । तत्र यदि जगत्कर्ता गौणः स्यात् तन्नि१५ ष्टस्य संसार एव स्यात् । न मोक्षः || १|१|६ ॥
किंच |
१०
상
हेयत्वावचनाच्च ।। १।१।७ ॥
इतोपि निर्गुण एव जगत्कर्ता । वेदान्तंषु सर्वत्र साधनोपदेशेषु पुत्रादिवज्जगत्कर्ता हयत्वेन नोपदिश्यते । यदि सगुणः स्यात्प्राकृतगुणपरिहारार्थं मुमुक्षुभिर्जगत्कर्ता नोपास्यः स्यात् । पुत्रादिवत् । अत ईक्षत्यादयो न सगुणधर्माः । सूत्रत्रयस्येतिहेतुसाधकत्वाच्चकारः । एवं सूत्रचतुष्टयेने क्षतिहेतुना जगत्कर्तृत्वोपपत्त्या सृष्टिवाक्यानां ब्रह्मपरत्वमुपपादितम् ॥ ११७ ॥
अतः परं स्वतन्त्रहेतूनाह । स्वाप्ययात् । (ब. सू. १-१-८ ) २५ गतिसामान्यात् । (ब. सू. १ - १ - ९ ) श्रुतत्वाच्च । ( . सू. १ - १ - १० )
18-Band ( read साधनोपदेशे for साधनोपदेशेषु ।
20