________________
१९
४ ईक्षत्यधिकरणम् ।
[ अ. १ पा. १ . ५
स्वतः । भ्रमानुत्पत्तिप्रसंगात् । सच्चसहितानामेव चक्षुरादीनां प्रामाण्यात् । अतो निरंपेक्षा एवं भगवन्निःश्वासरूपवेदा एव प्रमाणम् । संकेतग्रहस्तु वैदिक एव वेदविद्भिः कृतः । आकृतिमात्रार्थं लोकापेक्षा । अनधिगतागन्तु च प्रमाणम् । लोकानधिगत इत्यर्थः । यज्ञबह्मणोरलौकिकत्वं ५ सिद्धमेव । लौकिको व्यवहारः संनिपातरूपत्वात्पुरुषार्थसाधक एव । तर्हि शब्दमात्रस्य कथं ग्रहणम् । वेदव्याख्यातृवाग्विषयत्वादिति ब्रूमः । एतेन - मनसैवानुद्रष्टव्यम् - इत्यपि समर्थितम् । तस्मात् सृष्ट्यादिप्रतिपादका अपि वेदान्ताः साक्षाद्वह्मप्रतिपादका इति सिद्धम् ॥ १|१|४ | स्यादेतत् । कर्तृत्वमकर्तृत्वं च वेदे प्रतीयते ब्रह्मणः । १• इमानि भूतानि जायन्ते ( तै. ३ - १ ) स आत्मान स्वयमकुरुत ( तै. २-७ ) निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ( श्वे. ६-१९ ) असंगो ह्ययं पुरुष: (बृ. ४-३ - १५ ) इत्येवमादिवाक्येषु । तत्र ध निर्णयः संभवति । सर्वभवनसमर्थत्वाद्विरुद्धसर्वधर्माश्रयत्वेन । अन्यतरबाधाद्वा । अलौकिकापेक्षया लौकिकस्य जघन्यत्वात्कर्तृत्वादे१५ लोकसिद्धत्वात्कर्तृत्वबाध एव युक्तः । ईक्षत्यादिकं तु प्रकृतिगुणसम्बन्धादपि ब्रह्मणो युज्यते । तस्मादलौकिक सर्वभवन समर्थत्वादिकल्पनापेक्षया लौकिक एवान्यतरचाधी युक्तः । ततश्व सत्यस्वरूपादन्यदेवैतादिति स्वयमेवाशङ्कय परिहरति सूत्रकारः ।
२०
गौणश्चैन्नात्मशब्दात् ॥ १।१।५ ॥
ईक्षत्यादिगुणयुक्तः परमात्मा गौणः प्रकृतिगुणसत्त्वसम्बन्धवान् इति चेत् । न तथा वक्तुं शक्यंत । कुतः । आत्मशब्दात् । आत्मा वा इदमेक एवाग्र आसीत् (ऐ. १ - १ ) इत्युपक्रम्य - स ऐक्षत ( ऐ. १1१ ) इत्युक्तम् । आत्मशब्दः पुनः सर्वेषु वेदान्तेषु निर्गुणपरब्रह्मवाचकत्वेनैव
17 A reads अन्यदेतत् for अन्यदेवैतत । 20-A and Com. गुण after ईक्षत्यादि । 20- Eom. मत्त्व after गुण ।
21-B reads तथत्वं for तथा ।