________________
अ. १ पा. २ सू. २६]
अणुभाष्यम्
७०
( श. ब्रा. १०।६।१।११ ) इति । तस्मात्पुरुषत्वं पाठान्तरे पुरुषविधत्वं वा जाठरस्य न संभवतीति भगवानेव वैश्वानरः । भगवत्परत्वे संभवत्यन्यकल्पना न युक्तेति ॥ १।२।२६ ॥
अत एव न देवता भूतं च ॥ १।२।२७ ॥ ५ वैश्वानरो न ऊत्या ( अ. वे. ६।३५।१ ) इत्यादिमन्त्रैर्देवताया महाभूताग्नेर्वा वाक्यर्थतेति कस्यचिद्बुद्धिः स्यात्तदप्यतिदेशेनैव परिहरति । मुख्योपपत्तिर्भगवत्परत्वे संभवति नान्यकल्पना युक्तेति ॥ १।२।२७ ॥
साक्षादप्यविरोधं जैमिनिः ॥ १॥२॥२८॥
अधुना परिमाणविशेषो विचार्यते । प्रादेशमात्रत्वं भगवतः स्वाभा १० विकं कृत्रिमं वेति । अस्मिन् सिद्ध एव पूर्वोक्तं सिद्धं भवेदिति विचार्यते ।
तत्रास्मिन्नर्थे चत्वार ऋषयो वेदार्थचिन्तकाः प्रकारभेदेन । तत्र केवलं शब्दबलविचारका आचार्याः १ । शब्दार्थयो मिनिः २। आश्मरथ्यस्त शब्दोपसर्जनेनार्थविचारकः ३ । केवलार्थविचारको बादरिरिति ४ । आचार्यः
पुनर्विचाराविचारयोर्दोषं पश्यन् विचारमपि वदन् तेषामल्पबुद्धिख्यापनाय १५ नामान्याह । तत्र जैमिनिरुभयबलविचारकः प्रथमं निर्दिश्यते । व्याप
कस्य प्रादेशमात्रत्वे साक्षादपि कल्पनाव्यतिरेकेणापि स्वरूपविचारेणैव विरोधं मन्यते जैमिनिः । आकाशवव्यापकं सर्वतःपाणिपादान्तं ब्रह्म । अतएव साकारत्वमनन्तमूर्तित्वं ब्रह्मणः स्वेच्छया परेच्छया स्वभावतश्च विभक्तमिव । त्रयोपि नियतपरिमाणाः । अनियतपरिमाणास्त्वाकाशवत्प२० रिच्छेदनिरूप्याः । तद्वृद्धिह्रासाभ्यां तथा भवन्ति । स्मृतावप्युक्तम् ।
विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः । . प्रथमं महतः स्रष्ट द्वितीयं त्वण्डसंस्थितम् ॥ तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यते ॥
( इति ।)
9- reads तत्पादेशमावत्वं for शादेशमात्रत्वं ।