________________
वृषोत्सर्गप्रयोगः।
५१ स्योना भवन्तु ॥३॥ शिवेन मा चनुषा पश्यतापः शिवया तन्वोपस्पृशत त्वचं मे । सर्वाः अग्नी रप्सुषदो हुवे वो मयि वर्ची वलमोजो निधत्त ॥ ४ ॥ (तै०सं०५।६।१) इति ॥
शं नो देवीरभिष्टय आपो भवन्तु पीतये । शैय्योरभिस्रवन्तु नः ॥ इति ।(१) ततो घण्टिकानूपुरकटकादिभिः पञ्च त्रीन् द्वौ वा अलङ्कृत्य
कामधेनोः कुले जातास्त्रिहायण्यः सुधावहाः ।
नरकादुद्धरत्वेनं स्वर्गलोके मयाऽर्चिताः ॥ इत्यनेन वत्सतरीगन्धादिना सम्पूज्य( तीक्ष्णशृङ्गायै विद्महे वेदपादायै धीमहि । तन्नो गौरी प्रचोदयात् ।
इति दक्षिणकर्णे (२)जपेत् ।) ततो मधुपर्कविधिना-"धर्मस्त्वं वृषरूपेण जगदानन्दकारक । अष्टमूर्तेरधिष्ठानमत्त: 'शान्ति प्रयच्छ मे' (पाहि सनातन) ॥
इत्यनेनैव वा वृषभं सम्पूज्य- . (३)(तीक्ष्णशृङ्गाय विद्महे वेदपादाय धीमहि । तन्नो वृषः प्रचोदयात् ॥ ) इति,
__वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ।
वृणोमि तमहं भक्त्या स मां रक्षतु सर्वतः ।। ___ इति च वृषस्य दक्षिणकर्णे जपेत् । ततो गृहीतपुष्पाञ्जलिव॒षं त्रिः परिक्रम्य नमस्कुर्यात् । (गारुडात्)
(१) अत्र वत्सतरीणां स्नापने श्रीसूक्तस्य विनियोगः पद्धतिकाराणां भ्रान्तिमूलकः । “हिरण्यवर्णा, “इति चतसृभिः" इत्यादौ अब्देवताकस्य सूक्तस्यैव स्नापने विनियोगोपलब्धेः । अनन्वितार्थत्वाच्च । एवं "रुद्रान् जपित्वा" इति जपमात्रस्यैवोपदेशात् वृषस्नापने तस्य विनियोगोऽपि तथैव । अतएव हरिहरगदाधरादिपद्धतिषु तथा विनियोगो नोपलभ्यते इति बोध्यम् । ' (२) वत्सतरीकणे जपप्रकारो हरिहरादिपद्धतिषु नोपलभ्यते । अतोऽत्र दृढ मूलं चिन्त्यम् ।
(३) यद्यपि अस्य मन्त्रस्य वृषकणे जपो हरिहरादिपद्धतिषु नोपलभ्यते, तथापि मिताक्षराटीकायाम् (५८६ ) उपलभ्यते एवेति बोध्यम् ।