________________
४६
अन्त्यकर्मदीपके अत्र च नान्दीश्राद्धं निषिद्धम् ।। वत्सराभ्यन्तरे पित्रोषस्योत्सर्गकर्मणि ।
वृद्धिश्राद्धं न कुर्वीत तदन्यत्र समाचरेत् ॥ इति कामधेनूक्तेः । अत एव न मातृपूजनम् । अयं च पतिपुत्रोभयवत्याः स्त्रिया: भर्तुः सन्निधाने मरणे न कार्यः ।
पतिपुत्रवती नारी भर्तुरग्रे मृता यदि ।
वृषोत्सर्ग न कुर्वीत गां च दद्यात् पयस्विनीम् ॥ इति संग्रहोक्तेः । तयोरग्रे इति गारुडे पाठः ।
अथ वृषोत्सर्गप्रयोगः। तत्रादौ प्रेतपुत्रादि: गङ्गातीरादिकं गत्वा सुस्नात आचान्तो भूमिशुद्धिं संपाद्य तत्र सर्वां वृषोत्सर्गसामग्री संस्थाप्य कर्मपात्रं संपाद्य तेन जलेन सामग्री संप्रोक्ष्य प्राणानायम्य पुण्डरीकाक्षादिस्मरणं कृत्वा हस्ते जलादिकमादाय देशकालौ सङ्कीर्त्य अमुकगोत्रस्यामुकप्रेतस्य (अमुकगोत्राया अमुकप्रेतायाः ) प्रेतत्वविमुक्तिपूर्वकोत्तमलोकप्राप्त्यर्थं वृषोत्सर्गमहं करिष्ये इति प्रतिज्ञाय तत्पूर्वाङ्गत्वेनाचार्यब्रह्मणोर्वरणमहं करिष्ये इति संकल्प्य अद्य कर्तव्ये वृषोत्सर्गकर्मणि आचार्यत्वेन भवान्मया निमन्त्रितः । निमन्त्रितोऽस्मीति प्रतिवचनम् । अद्य कर्तव्ये० कृताकृतावेक्षकत्वेन भवान्मया० । इति कुशवाह्मणौ आचार्यब्रह्मत्वेन वृणुयात् । ततो हस्तपरिमितं स्थण्डिलं विधाय परिसमूहनादि कुर्यात् । त्रिभिर्दभैः परिसमूहनम् । पांसूनामपसारणम् । गोमयेनोपलेपनम् । सुवेण प्रागमा उदक्संस्थास्तिस्रो रेखाः स्थण्डिलप्रमाणेन कृत्वा अनामिकाङ्गुष्ठाभ्यां यथोल्लिखिताभ्यो रेखाभ्यः पासूनुद्धृत्येशानकोणे प्रक्षिपेत् । उदकेनाभ्युक्ष्य ताम्रपात्रेणाग्निं गृहीत्वा
अग्निं दूतं पुरो दधे हव्यवाहमुपब्रुवे ।
देवाँ आसादयादिह । . .. इत्युच्चार्य वेद्यां स्वाभिमुखं स्थापयेत् । आचार्यायासनं दत्त्वा अग्नेर्दक्षिणतो ब्रह्मासनमास्तीर्य तत्र पूर्ववृतं ब्रह्माणमुपवेश्याग्नेरुत्तरत