________________
वृषोत्सर्गः।
४५ न्सदीपान्सदन्तधावनान् उदकपूर्णकुम्भान् कचिच्छुभदेशे निधाय गन्धवस्त्रादिपूजितान् कृत्वा प्राङ्मुखो ब्राह्मणलाभे ब्राह्मणं सम्पूज्य तदलाभे मनसोद्दिश्य हस्ते जलादिकं गृहीत्वा देशकालौ संकीर्त्य अमुकगोत्रस्यामुकप्रेतस्य ( अमुकगोत्राया अमुकप्रेताया: ) मरणदिनमारभ्य तिथिबद्धचान्द्रमानेन संवत्सरपूर्तिपर्यन्तं जायमानप्रात्यहिकक्षुत्पिपासानिवृत्त्यर्थं षष्टयधिकत्रिशतसङ्ख्याकान् ( अधिमासपाते तु नवत्यधिकत्रिशतसङ्ख्याकान् ) सान्नान् सदीपान् सदन्तधावनान् उदकुम्भान् पूर्वोक्तविशेषणविशिष्टानि पर्णपुटानि वा ब्राह्मणाय दास्ये ॐ तत्सन्न मम इति सङ्कल्प्य कृतस्य सान्नोदकुम्भदानस्य प्रतिष्ठासिद्धयर्थमिमां दक्षिणां ब्राह्मणाय दास्ये इति दानप्रतिष्ठां कुर्यात् ।
अथ वृषोत्सर्गः। स च नित्यः ।
न करोति वृषोत्सर्ग सुतीर्थे वा जलाञ्जलीन् । न ददाति सुतो यस्तु पितुरुच्चार एव सः ॥ इति कौर्मोक्तेः । एकादशेऽह्नि प्रेतस्य यस्य नोत्सृज्यते वृषः ।
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥ इति निन्दाश्रुतेश्च । काम्यश्च ।
एवं कृत्वा ह्यवाप्नोति फलं वाजिमखोदितम् ।
यमुद्दिश्योत्सृजेन्नीलं स लभेत पराङ्गतिम् ।। इति भविष्यादौ फलश्रुतेः ।
यद्यपि पारस्करगृह्ये "यूथे मुख्याश्चतस्रो वत्सतर्यस्ताश्चालङ्कृत्य" इति श्रवणात् चतसृभिः वत्सतरीभिः सह वृषस्य उत्सर्जनं प्राप्नोति तथाऽपि-. ___चतस्रो वत्सिका भद्रा द्वे वा सम्भवतोऽपि वा । इति देवीपुराणोक्तेः, ___ वत्सं वत्सीं समानाय्य बध्नीयात् कङ्कणं तयोः ।
इति गारुडोक्तेश्च द्वाभ्याम् एकयाऽपि वा वत्सतर्या सह वृषस्योत्सर्गः शास्त्रसिद्ध एवेति तदनुसारेणैव प्रयोगः प्रदर्श्यते ।