________________
२०
अन्त्यकर्मदीपके स्थापयेत् । तत: क्रव्यादमग्निं संस्कृत्य सव्येन क्रव्यादपूजां कुर्यात् ।
त्वं भूतकृज् जगद्योने त्वं लोक परिपालकः । उक्तः संहारकस्तस्मादेतं स्वर्ग मृतं नय ॥
एष गन्धः क्रव्यादाग्नये नमः । एते अक्षताः ऋव्यादाग्नये नमः । इमानि पुष्पाणि० । एष धूपः० । एष दीप: । इत्थमग्नि सम्पूज्यापसव्यं कृत्वा हुताशनमादाय तिष्ठन् मन्त्रमुदीरयेत्
कृत्वा तु दुष्कृतं कर्म जानता वाऽप्यजानता । मृत्युकालवशं प्राप्तं नरं (१)पञ्चत्वमागतम् ॥ धर्माधर्मसमायुक्तं लोभमोहसमावृतम् । दहेयं सर्वगात्राणि दिव्याच लोकान्स गच्छतु ॥
इति मन्त्रमुच्चार्य चितां त्रिः सकृद्वा प्रदक्षिणीकृत्य (२)शिर:प्रदेशे वक्ष्यमाणमन्त्रं पठन् वह्नि दद्यात्-(य सं ३५२२)।
"अस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः । (असौ) स्वर्गाय लोकाय स्वाहा" इति(३) ।
(१) “नरं पञ्चत्वमागतम्" इ यत्र न लिङ्गोहः । स्त्रीपंसदाहस्य समविधाने प्रकृतिविकृतिभावाभावात् । नच विभक्त्यर्थपुस्त्वविशिष्टबोधात् स्त्रियां बाध इति वाच्यम् । प्राथमिकत्वाद् बलीयसः प्रातिपदिकार्थस्य समवेतत्वेन स्त्रीपक्षेऽपि विनियो. गात् स्पष्टंचेदं पूर्वमीमांसायां न० ९। अत एव "एतद्वः पितरो वास इति जल्पन् पृथक् पृथक्” इति ब्रह्मपुराणे पित्रादिषु प्रत्येकं बहुवचनान्तप्रयोगात् तत्रानर्थक्यात् एकोद्दिष्टेऽपि बहुवचनान्त एव प्रयोज्यो नत्वेकवचनान्त उह्यः । प्रातिपदिकार्थस्य समवेतत्वात् । एवमेव "अनादिनिधनो देव” इतिमात्रान्ते "प्रेतमोक्षप्रदो भव" इति पुंल्लिङ्गपाठो न तु ‘प्रेतामोक्ष' इति । एवं “गतोऽसि दिव्यलोकं त्वम्" इत्यत्रापि इत्यलं भूयसा।। . (२) "शिरःस्थाने प्रदापयेत्” इतिपूर्वोक्तवाराहवचनात् । शिष्टसमाचाराच्च । प्राचीनपर्वतीयपद्धतौ तु स्त्रियाः पादप्रदेशे अग्निदानं दृश्यते, तत्र मूलं मृग्यम् । निबन्धेष्वनुपलम्भात् । (३) स्त्रियां तु अस्मारवमिति मन्त्रो न प्रयोक्तव्यः।
अनयैवावृता नारी दग्धव्या या व्यवस्थिता।'
अग्निप्रदानमन्त्रोऽस्यां न प्रयोज्य इति स्थितिः । इति छन्दोगपरिशिष्टवचनात् । किन्तु
"कृत्वा तु दुष्कृतं कर्म” इति पूर्व वराहपुराणोक्तो मन्त्र एव प्रयोज्यः। तस्य सर्वसाधारणत्वात् । केचित्तु-स्त्रीणामिवाग्निदानं स्यादथातोऽनुक्तमुच्यते ।