________________
आशौचकालनिर्णयः। 'अन्यत्रेत्यस्य 'प्रामान्तरे' इत्यर्थ' इति स्मृत्यर्थसारे । तेनैकग्रामे यहलाभः । इदमेव शिष्टसंमतम् । भ्रात्रादेस्तु स्वगृहादन्यत्र भगिनीमृतौ, श्वशुरादिमृतौ च पक्षिणी ।
श्वशुरयोर्भगिन्यां च मातुलान्यां च मातुले ।
पित्रोः स्वसरि तद्वच्च पक्षिणी क्षपयेन्निशाम् ॥ इति वृद्धबृहस्पतिस्मृतेः ।
आदन्तात्सोदरे सद्य आचूडादेकरात्रकम् ।
आप्रदानात्रिराजं स्याद्दशरात्रमतः परम् ॥ इति कौर्मवचने सोदरपदं सपिण्डोपलक्षणम् । तेन सोदरादीनां सर्वेषां सपिण्डानां दन्तजननात्पूर्वं कन्यामृतौ स्नानमात्रम् | तच्च "आदन्तजन्मनः सद्य” इत्यस्माद्वचनादेव सिद्धम् । अत 'आदन्तात्' इति दृष्टान्तार्थम् । 'यथा आदन्तात्सद्यस्तथा आचडादपि । आप्रदानात् प्रदानात्पूर्वं चौलोत्तरं त्रिवर्षोत्तरं वैकरात्रम् । तत ऊर्ध्व विवाहात्प्राक् पितृभर्तृकुलयोस्त्रिरात्रम् । विवाहानन्तरं भर्तृकुले दशरात्रम्' इति तदर्थः । पित्रोम॒तावूढानां पुत्रीणां त्रिरात्रम् ।
पित्रोरुपरमे स्त्रीणामूढानां तु कथं भवेत् । .. त्रिरात्रेणैव शुद्धिः स्यादित्याह भगवान् यमः ॥ इति माधवीये वृद्धमनूक्तेः ।
दशाहोर्ध्वमपि पित्रोzतावूढानां पुत्रीणां वत्सरान्ते देशान्तरेऽपि श्रवणे त्रिरात्रमेवेति शिष्टाचारः । 'भ्रातुर्भगिनीगृहे तस्या वा तद्गृहे मृतौ त्रिरात्रम् , अन्यत्र तु पक्षिणी' इति षडशीतावुक्तम् । विदेशस्थभगिन्यादिमृतौ तदीयाशौचमध्ये तन्मरणश्रवणेऽपि स्नानमात्रम्।
भगिन्यां संस्कृतायां च भ्रातर्यपि च संस्कृते । मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ॥
शाल के तत्सुते चैव सद्यः स्नानेन शुद्धयति । इति मयूखे वृद्धवसिष्ठोक्तेः । समानदेशे तत्तद्वचनैरशौचस्य प्रतिपादितत्वाद् अस्य वचनस्य विदेशपरताया एव युक्तत्वात् । अपूर्णाशौचानां सोदकमातुलश्वशुरादीनां सर्वेषां देशान्तरमरणे स्नानमेवेति निष्कर्षः । देशान्तरलक्षणं तूक्तम् ।