________________
१४४
अन्त्यकर्मदीपकोत्तरार्धे माधवस्तु 'प्रसवेऽपि पित्रोत्रिरात्रं, भ्रात्रादिबन्धुवर्गस्यैकरात्रम् ।
दत्ता नारी पितुर्गेहे सूयेताऽथ म्रियेत वा ।
तद्वन्धुवर्गस्त्वेकेन शुचिस्तजनकत्रिभिः ॥ इति ब्राह्मोक्तेः' इत्याह ।
वस्तुतस्तु विज्ञानेश्वरोक्तमेव युक्तम् । पूर्वोक्तविष्णुवचनैकवाक्यतया, दत्तेत्यादिब्राह्मवचनस्थतुशब्दस्य चार्थकतया च तस्य वचनस्य 'तद्वन्धुवर्गस्तजनकश्च प्रसवे एकेन, मरणे त्रिभिः शुचिः' इत्यर्थकतया विरोधाभावेन प्रसवे जनकस्याप्येकरात्रं, मरणे भ्रातृणामपि त्रिरात्रमिति व्यवस्थायाः सूपपादत्वात् । शिष्टानां सम्प्रदायोऽपि तथैव । अत एव च भगिन्याः स्वगृहमरणे समानप्राममरणे वा त्रिरात्राशौचप्रचारः सङ्गच्छते इति ।
अन्यत्र भ्रातृभगिन्योस्तु परस्परमृतौ पक्षिणी |
परस्परमृतौ भ्रातृभगिन्योः पक्षिणी भवेत् । इति ब्राह्मात् ।
पतिगृहे प्रसवे तु पित्रादीनामाशौचं नास्ति । मृतौ पित्रोत्रिरात्रमस्त्येव । प्रत्ताऽप्रत्तासु योषित्सु संस्कृताऽसंस्कृतासु च |
मातापित्रोत्रिरात्रं स्यादितरेषां यथाविधि ॥ इति शङ्खस्मृतेः ।
__ "बैजिकादभिसम्बन्धाद्" इत्युक्तेश्च । 'दन्तोत्पत्तेः प्राक् पित्रोरेकरात्रम् "अजातदन्तासु पित्रोरेकरात्रम्" इति मयूखे शङ्खस्मरणात्' इति मदनरत्नादौ ।
___ शिष्टास्तु पूर्वोक्तवचनविरोधात् इदं नाद्रियन्ते ।
'पितृगेहादन्यत्र कन्यामृतौ पित्रो: पक्षिणी । “दत्तायां पक्षिणी भवेत्। इति पुलस्त्योक्तेः ।
पितृगेहादितोऽन्यत्र यदि पुत्री प्रमीयते ।
पक्षिणी तत्र पित्रोः स्यान्नान्येषामिति निश्चयः ॥ इति षडशीत्युक्तेश्च, इति माधवः ।