________________
आशौच कालनिर्णयः। मेव' इति कमलाकरादयः । इदमेव युक्तम् । षोडशाब्दोत्तरं तु विवाहाभावेऽपि सम्पर्णमेव ।
अनूढभार्यः शूद्रस्तु षोडशाद्वत्सरात् परम् । मृत्युं समधिगच्छेच्चेन्मासात्तस्यापि बान्धवाः ।।
शुद्धिं समधिगच्छन्ति नात्र कार्या विचारणा | इत्यपरार्के शङ्खोक्तेः ।
वाग्दानोत्तरं प्राग्विवाहाद् भर्तृकुले पितृकुले च सप्तमपुरुषावधि कन्यासु त्रिरात्रम् ।
अवारिपूर्व दत्ता तु या नैव प्रतिपादिता। .
असंस्कृता तु सा ज्ञेया त्रिरात्रमुभयोः स्मृतम् ॥ इति मरीच्युक्तेः । एतद्वयोनिमित्तमाशौचं सर्ववर्णसाधारणम् ।
तुल्यं वयसि सर्वेषामतिक्रान्ते तथैव च | इति व्याघ्रपादोक्तेः । वयोनिमित्तकम् “आदन्तजन्मन: सद्यः" इत्यादिविहितं, दशाहेऽतिक्रान्ते विहितं व्यहादि च आशौचं सर्वेषां वर्णानां तुल्यम् , अविशिष्टमिति तदर्थः ।
द्विजानां दशाहाद्याशौचं चोपनयनोत्तरं प्रवर्तते । त्रिरात्रमावतादेशाद्दशरात्रमतः परम् ॥ क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु |
त्रिंशदिनानि शूद्रस्य तदर्ध न्यायवर्तिनः ॥ इति याज्ञवल्क्योक्तेः । इदानी प्रायो दशाहाशौचपक्ष एव प्रचलितः ।
सर्वेषामेव वर्णानां सूतके मृतके तथा ।
दशाहाच्छुद्धिरकेषामिति शातातपोऽब्रवीत् ।। इत्यङ्गिरसोक्तेः ।
'उढकन्यानां तु "संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे तत्प्रसवमरणे चेपितृगृहे स्यातां तदैकरात्रं त्रिरात्रं च" इति विष्णूक्तेः पितृगृहे प्रसवे एकरात्रं मरणे त्रिरात्रम्' इति विज्ञानेश्वरापराौं ।