________________
१४६
अन्त्यकर्मदीपकोत्तरार्धे - 'उपनीतमातुलबन्धुत्र यादीनामेव त्रिरात्रपक्षिण्याद्याशौचम् । अन्यथा दन्तजननादेः पूर्वं मातुलादेम॒तौ त्रिरात्रपक्षिण्यादि, तादृशस्य भ्रात्रादेः सद्य इत्यनौचित्यं स्याद्' इति टिप्पण्याम् । ___ "यादृग्वयसि यादृङ्मरणे सपिण्डानां दशाहं तादृग्वयसि ताङ्मरणे आचार्यादीनां त्रिरात्रादि । अन्यथा “मातुले पक्षिणीं रात्रिम्” इति मनुवचनेन अजातदन्तमातुलमरणेऽपि भागिनेयस्य पक्षिणी, तत्सपिण्डानाम् "आदन्तजननात्सद्य” इत्यादिना सद्यः शौचमिति महद्वैषम्यं स्यात्” इति शुद्धितत्त्वे रघुनन्दनश्च ( २८३ पृ० ) । युक्तं चैतत् ।
'अनुपनीतपुत्रस्य अनढकन्यायाश्च मातापितृमरणे संपूर्ण दशाहमाशौचम् । अन्यमरणे न किञ्चिद्' इति धर्मसिन्धौ । दौहित्रभागिनेययोरुपनीतयोस्त्रिरात्रम्, अनुपनीतयोः पक्षिणी ।
संस्थिते पक्षिणीं रात्रिं दौहित्रे भगिनीसुते ।
संस्कृते तु त्रिरात्रं स्यादिति धर्मो व्यवस्थितः ।। इति वृद्धमनूक्तेः । संस्कृते = उपनीते ।
"दौहित्रे भगिनीसुते' इत्यत्र पुंस्त्वविवक्षया दौहित्र्यां भागिनेय्यां च स्नानमेव, एवं बन्धुत्रयेऽपीति न वाच्यम् । अनुवाद्यविशेषणस्य विवक्षितुमशक्यत्वाद्" इति कृष्णभट्टीये ।
“यस्योभयं हविः' इत्यादौ अनुवाद्यविशेषणद्वित्वादिविवक्षाया दृष्टत्वात् सर्वत्र पुंस्त्वं विवक्षितमेवेति भागिनेयीमरणे दौहित्रीमरणे पितृष्वस्रादिकन्यामरणे च नाशौचम् । ___ तुल्यन्यायात् पितृष्वस्रादिकन्यानां तदीयमातुलादिमरणे, दौहित्र्या "भागिनेय्याश्च मातामहमातुलमरणे च नाशौचम्" इति धर्मसिन्धुकारः । अनयोः पक्षयोःसमाचाराव्यवस्था । महाराष्ट्रादिषु प्रायः आद्यपक्षो दृश्यते । बिन्ध्योत्तरवासिषु तु उत्तरपक्षो बाहुल्येनेति शिष्टवचनमनुसृत्याचरणीयमित्यलम् । ___ दौहित्रभागिनेययोः कृतचौलयोः त्रिवर्षयो; मरणे एव पक्षिणी । अन्यथा दन्तजननादेः पूर्व भ्रात्रादेः सद्यः, तादृशस्य दौहित्रादेः पक्षिणीत्यनौचित्यं स्याद्, इति बोध्यम् ।