________________
अन्त्यकर्मदीपकोत्तरार्धे
"
पूर्वत्वपरत्वे तूत्पत्तिकृते न ज्ञानकृते । तेन पूर्वोत्पन्नाशौचस्य परोत्पन्नाशौचज्ञानोत्तरं ज्ञानेऽपि पूर्वोत्पन्नाशौचेन परोत्पन्नाशौचं पूर्वोत्पन्ना - शौचमध्ये ज्ञातं निवर्तते एव । सम्पात एव तु ज्ञानकृतो न तु पूर्वत्यादिकमिति सिद्धान्तात्" इति धर्मसिन्धौ स्पष्टम् ।
१४०
"अन्तर्दशाह इति कालोपादानं तु तत्कालाभ्यन्तर एवाशौचसाङ्कर्य, न तु तदनन्तरं स्नानादेः प्रागपि आशौचसाङ्कर्यमिति प्रतिपादनार्थम्, यत्र तु पूर्वजातं निमित्तं पश्चाज्ज्ञातं पञ्चाज्जातं च पूर्वं ज्ञातं तत्र निमित्तज्ञानजन्याशौच पौर्वापर्यमगणयित्वैवाशौच स्वरूपयोग्यनिमित्तकाल पौर्वापर्यादे"वाशौच व्यवहारार्थं च" इति ग्रन्थेन रघुनन्दनोऽप्येत्तमर्थं स्फुटीचकार । नालच्छेदो जातुमृते मृतजाते वा सपिण्डानां दशाहम् |
यावन्न च्छिद्यते नालं तावन्नानोति सुतकम् | छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते ।।
इति जैमिन्युक्तेः । ‘नालच्छेदात्पूर्वं शिशूपरमे परिपूर्णं सूतकं न 'भवति किन्तु छिने नाले सति पश्चान्मृतौ सूतकं पूर्णं विधीयते' इति तदर्थः । " जीवन् जात" इति बृहन्मन्वेकवाक्यत्वात् । किन्तु तत्र पित्रादीनां त्रिरात्रमेव ।
जीवन् जातो यदि ततो मृतः सूतक एव तु । सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ||
इति बृहन्मनुवचनात् ।
इदञ्च प्रसवाशौचमेव । शावनिमित्तं तु नालच्छेदात्पूर्वं परत्र वा मृते स्नानमात्रम् । " प्राङ्नामकरणात्सद्यः शौचम्” इति शङ्खो केः । सद्यः शौचं स्नानमात्रेणाशौच निवृत्तिः ।
" नामकरणं नाशौचान्त कालोपलक्षणम्" इति निर्णयसिन्धौ प्रपतिम् । तेन नामकरणात्पूर्वं दशाहानन्तरमपि नामकरणाभावे दाहोदकदा नयोर्निषेधात्स्नानमात्राच्छुद्धिः । नामोत्तरं दन्तोत्पत्तेः प्राग्दाहे सति अहः । अदन्तजाते तनये शिशौ गर्भच्युते तथा । सपिण्डानां तु सर्वेषामहोरात्रमशौचकम् ॥