________________
आशौचकालनिर्णयः। १४१ इति यमोक्तेः । दाहाभावे तु स्नानमात्रम् ।
"अदन्तजाते प्रेते सद्य एव नास्याग्निसंस्कारः" इति विष्णुना दाहाभावे तदुक्तेः ।
गङ्गातीरे मृतं बालं गङ्गायामेव पातयेत् । ( अ० १०६२) अन्यदेशे क्षिपेद् भूमौ सप्तविंशतिमासजम् ॥
अतः परं दहेत्तस्य गङ्गायामस्थि निक्षिपेत् । इति गारुडवचनानुसारेण दाहाभावपक्षे व्यवस्था कर्तव्या ।
-अत्र गङ्गापदं महानापलक्षणम् ।
यत्र सन्ति महानद्यस्दन तास्वेव निक्षिपेत् ।। इति तत्रैव (अ०१०।१०७ ) उत्तरत्र संन्यासिविषये कथनात् । दाहविकल्पं चाह लौगाक्षि:
तूष्णीमेवोदकं कुर्यातूष्णीं संस्कारमेव च ।
सर्वेषां कृतचूडानामन्यत्रापीच्छया द्वयम् ॥ संस्कारं दाहम् । अन्यत्र अकृतचूडे ।
'चूडाकरणं तृतीयवर्षकालोपलक्षणार्थम्' इति मेधातिथिहरदत्तौ । चूडाकरणस्यापि कालोपलक्षणत्वं नेति निर्णयसिन्धौ प्रपञ्चितम् । त्रिवर्षोज़ तु दाहोदकदानं नियतम् ।
नात्रिवर्षस्य कर्तव्या बान्धवरुदकक्रिया । .
जातदन्तस्य वा कुर्युर्नाम्नि वाऽपि कृते सति ॥ इति मनूक्तेः । उदकं दाहोपलक्षणम् ।
दन्तोत्पत्त्यनन्तरं प्राक् त्रिवर्षान्तान्मृतेऽहः । “दन्तजातेऽप्यकृतचूडे त्वहोरात्रेण शुद्धिः” इति विष्णूक्तः । दन्तोत्पत्त्यनन्तरं त्रिवर्षान्ताप्राक् चूडाऽभावेऽप्यग्निदाने त्र्यहः । यद्यप्यकृतचूडो वै जातदन्तस्तु संस्थितः । तदापि दाहयित्वैनमाशौचं त्र्यहमाचरेत् ॥ इत्यङ्गिरसोक्तेः ।
अत्र दाहयित्वेत्यनुवादः । दाहाशौचोभयविधाने वाक्यभेदात् । एवं च नास्य त्रिवर्षमात्र परत्वम् । किन्तु अकृतचूडस्य जातदन्तस्य, अकृत