________________
१३८
अन्त्यकर्मदीपकोत्तरार्धे पत्नीपुत्रयोः पूर्वमगृहीताशौचयोः सर्वमाशौचं गृहीताशौचयोः कर्माङ्गं त्रिरात्रम्” इति । द्वादशवर्षादिप्रतीक्षोत्तरं दाहे तु पुत्रादीनां सर्वेषां त्रिरात्रमिति कल्पतरुदिवोदासादयः । अतिक्रान्तेऽपि पुत्रादीनां पूर्णाशौचस्यैवोक्तत्वात्प्रतिकृतिदाहेऽपि दशाहमेव युक्तम् । __चतुर्थमासे गर्भस्रावे मातुः चतुरहमाशौचम् | सपिण्डानां पितुश्च स्नानमात्रम् | "गर्भस्रावे स्नानमात्रं पुरुषस्य” इति वृद्धवसिष्ठोक्तेः । पञ्चमपष्ठयोर्मातुः पञ्चाहषडहम् । सपिण्डानां पितुश्च कर्मानधिकाररूपं दिनत्रयम् । यद्वा 'पित्रादिसपिण्डानामेकाहमाशौचम् ।
अजातदन्ते तनये शिशौ गर्भच्युते तथा ।
सपिण्डानां तु सर्वेषामेकरात्रमशौचकम् ॥ इति यमोक्तेः' इति मदनपारिजात: । ___ सप्तममासादौ प्रसवे सूतिकाया: सर्वेषां सपिण्डानां च दशाहम् । तत्र सूतिकाया अस्पृश्यत्वं, पितुः स्नानेनाऽस्पृश्यत्वनिवृत्तिः, अन्येषां सपिएडानां कौनधिकारमात्रं नत्वस्पृश्यत्वम् ।
जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।
माता शुद्धोदशाहेन स्नानात्तु स्पर्शनं पितुः ॥ . इति संवर्तवचनात् ।
पुत्रपदात्कन्योत्पत्तौ न पितुः स्नानमिति हारलतायाम् |
पुत्रपदस्य “पौत्री मातामहस्तेन” इत्यत्र कन्यायामपि प्रयोगात्तदुत्पत्तावपि स्नानं कर्तव्यमिति कमलाकरः ।
सूतिकाया: कर्मानधिकारस्तु "सूतिकां पुत्रवतीं विंशतिरात्रेण कर्माणि कारयेत्, मासेन स्त्रीजननीम्” इति पैठीनसिवचनात्पुत्रजनने विंशतिरात्रम् , कन्याजनने तु मासम् ।
'विंशतिरात्रगणना चाशौचोत्तरदिनमारभ्य कार्या | अन्यथा शूद्रयाः सपिण्डानामाशीचे विद्यमानेऽपि विंशतिरात्रोत्तरं कर्माधिकारप्रसङ्गः स्यात् । विभ्यनुवादविरोधश्च । जननप्रभृतिदशाहमाशौचस्य प्राप्तत्वादनुवादत्वं, तदुत्तरं चाप्राप्तात्वाद्विधित्वमिति | तस्मात्पुत्रोत्पत्तौ जननमारभ्य मासं