________________
आशौचकालनिर्णयः ।
१३७
इति कश्यपस्मरणात् । अथवा प्रागर्धरात्रात्पूर्वदिनम्, अर्धरात्रो -
त्तरं परं दिनम्
अर्धरात्रावधिः कालः सूतकादौ विधीयते
इति तेनैवोक्तेः । अथवा सूर्योदयात्पूर्वं सम्पूर्ण रात्रौ पूर्वदिनम् । रात्रावेव समुत्पन्ने मृते रजसि सूतके ।
पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः ॥
इति च तेनोक्तेः । अत्र सर्वत्र देशाचारतो व्यवस्था |
तत्र मैथिलानां सारस्वतानां कौर्मा चलादीनां च तृतीयः पक्षः । दाक्षिणात्यादीनां प्रथमः । पराशरोऽप्यमुमेव पक्षमङ्गीकरोति । द्वितीयस्तु मध्येदशीयानां केषाञ्चित् ।
"नाहिताग्नेर्देहस्तु दाह्यो गृह्याग्निना स्वयम् । तदलाभे पलाशानां वृन्तैः कार्यः पुमानपि ॥ वेष्टितव्यस्तथा यत्नात्कृष्णसारस्य चर्मणा । ऊसूत्रेण बध्वा तु प्रलेप्तव्यो यवैस्तथा ॥ सुपिष्टैर्जलसंमिश्रैर्दग्धव्यश्च तथाऽग्निना ।
सौ स्वर्गीय लोकाय स्वाहेत्युक्त्वा सबान्धवैः | एवं पर्णशरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ॥”
इति ब्राह्मोक्तेः पर्णशरदाहे त्रिरात्रम् |
दशाहमध्ये पर्णशरदाहे तु न त्रिरात्रम् । तत्र “प्रोषिते कालशेष: स्यात्” इति याज्ञवल्क्योक्तेः । किन्तु तदूर्ध्वम् । तत्र पत्नीपुत्रयोः पूर्वमगृहीताशौचयोर्दशाहमेव । गृहीताशौचयोस्तु त्रिरात्रम् | पत्नीमृतौ भर्तुः, सपत्न्योश्च परस्परमगृहीताशौचानां दशाहमेव । अतिक्रान्तेऽपि तेषां दशाहाशौचस्य पूर्वमुक्तत्वात् । गृहीताशौचानां तु त्रिरात्रम् | अन्यसपि - एडानां गृहीताशौचानामगृहीताशौनां च त्रिरात्रमेव । गृहीताशौचानां सपिण्डानां स्नानमात्रमिति स्मृत्यर्थसारे ।
बह्वृचपरिशिष्टे – “अथातीतसंस्कार: स चेदन्तर्दशाहं स्यात्तत्रैव सर्व समापयेत् । ऊर्ध्वमाहिताग्नेर्दाहात्सर्वमाशौचं कुर्यात् । अन्येषु (अनभिषु)