________________
१३० अन्त्यकर्मदीपकोत्तरार्धे
इति पिबेत् । ततस्तानन्यांश्च ब्राह्मणान् दक्षिणाभिः सन्तोष्य सम्मानपुरःसरं ताननुव्रज्य 'अनेन ब्रह्मीभूतस्य गुरोः समाराधनेन श्री भगवान् नारायणः प्रीयतां न मम' इतीश्वरार्पणं कृत्वा सुहृद्युतो भुञ्चीत । एवं प्रतिमासं प्रत्यब्दं चाराधनं सिद्धितिथौ कार्यम् । प्रत्यब्दं च पार्वणोत्तरम् । इत्थंकरणाशक्तौ यथाशक्ति ब्राह्मणानाहूय पादप्रक्षालनपूर्वकं गन्धादिभिरभ्यर्च्य भोजयेत् ।
इति यत्याराधनप्रयोगः ।
अथाशौचकालः प्रसङ्गात् संक्षेपेण निर्णीयते । तच्चाशौचं सपिण्डानां दशाह, सोदकानां त्रिरात्रं, सगोत्राणामेकरात्रम् ।
मूलपुरुषमारभ्य सप्तमपर्यन्तं सपिण्डाः, अष्टममारभ्य चतुर्दशपुरुषपर्यन्तं सोदकाः, पञ्चदशमारभ्य एकविंशतिपर्यन्तं सगोत्राः ।
पित्रादयस्त्रयश्चैव तथा तत्पूर्वजास्त्रयः । सप्तमः स्यात्स्वयं चैव तत्सापिण्ड्यं बुधैः स्मृतम् ॥ सापिण्ड्यं सोदकं चैव सगोत्रं तच्च वै क्रमात् ।
एकैकं सप्तकं चैव सापिण्ड्यादि उदाहृतम् ॥ इति लध्धाश्वलायनस्मृतेः,
दशाहं शावमाशौचं सपिण्डेषु विधीयते । जननेऽप्येवमेव स्यान्निपुणां शुद्धिमिच्छताम् ॥ जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते ।
शवस्पृशो विशुद्धन्ति यहात्तूदकदायिनः ॥ इति मिताक्षरादौ वचनात्,
___ समानोदकानां त्र्यहो गोत्रजानामहः स्मृतम् । इति जाबालोक्तेश्च ।
'मूलपुरुषात्सप्तमो मूलपुरुषादष्टमादेर्जनने मरणे वा दशरात्रमाशौचं कुर्यात्, मूलपुरुषादष्टमादिस्तु मूलपुरुषात्सप्तमस्य मरणे जनने वा त्रिरात्रमेवाशौचं कुर्यात् । सप्तमस्याष्टमादौ सापिण्ड्यानिवृत्तावपि अष्टमादेः मेसप्त