________________
यत्याराधनप्रयोगः |
१२६
घृतेनोपस्तीर्य पायसादिविशिष्टद्रव्यं साज्यं व्यञ्जनसहितं च परिविष्य सर्वेषां सन्निधौ जलपात्रं च निधाय गायत्र्या प्रतिपात्रमावृत्त्या प्रोदय सव्यहस्तेन पात्रमालभ्य दक्षिणहस्ते कुशयवजलान्यादाय 'अह ब्रह्मीभूताय गुरवे इदमन्नं सोपस्करं परिविष्टं परिवेक्ष्यमाणं च तृप्तिक्षमं ते नमः' इति भूमौ जलं क्षिपेत् । एवं परमगुर्वाद्यर्थेऽन्नमुत्सृजेत् । ततो हस्ते जलं गृहीत्वा -
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥
1
अनेन गुर्वाद्याराधनेन भगवान् नारायणः प्रीयताम् इति भूमौ जलं क्षिपेत् । ॐ अमृतोपस्तरणमसि इति सर्वेषामपोशानं दद्यात् । भुञ्जानेषु ब्राह्मणेषु ईशावास्याद्युपनिषन्मन्त्रान् यथा सम्भवं तान् श्रावयेत् । तृप्तेषु ॐ अमृतापिधानमसि इत्यपोशानं दन्त्वा आचान्तेषु विशिष्टताम्बूल वस्त्रदक्षिणादिभिरभ्यर्चयेत् । तत उपविष्टेष्वेव तेषु हस्ते जलं गृहीत्वा 'गुर्वाराधनाङ्गभूतं तीर्थपूजनमहं करिष्ये' इति सङ्कल्प्य गोमयेन चतुरस्रमुपलिप्य रङ्गवल्ल्योदिभिरलङ्कृत्य तत्र धान्यं प्रक्षिप्य तदुपरि देवसन्निधौ पूर्व स्थापितं पादोदककलशं संस्थाप्य तत्र गङ्गादितीर्थानि भावयित्वा पुरुषसूक्तेन प्रत्यचम् 'ॐ तीर्थराजाय नमः' इत्यनेन च षोडशोपचारै: पञ्चोपचारर्वाऽभ्यर्च्य तत्पात्रं शिरसि धृत्वा यथाशक्ति उपनिषत्खण्डानि जपित्वा -
'श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव'
इति कीर्तनपुरःसरं सहर्षं नृत्यं कृत्वा तत्पात्रं पुनर्मण्डले संस्थाप्य - पूजाऽवशिष्टानि गन्धादीनि बन्धुभिः सह ललाटादौ धृत्वा विप्रान् प्रद्क्षिणीकृत्य 'आनन्दमानन्दकर मिति 'गुरुर्ब्रह्मा' इति च द्विजांस्तीर्थराजं च नमस्कृत्य गुर्वर्थविप्रहस्ते पादोदकपात्रं दत्त्वा तद्धस्तात्तीर्थं गृहीत्वा -- अविद्या मूलशमनं सर्वपापप्रणाशनम् ।
गुरोः पादोदकं तीर्थं पिबामि भवनाशनम् ॥ इति पिबेत् । पुत्रादिकामनायाम् -
शोषणं पापपकस्य दीपनं ज्ञानतेजसः । गुरोः पादोदकं तीर्थं पुत्रपौत्रप्रवर्धनम् ॥ १७ अ० टी०